________________
तत्त्वबोधिनीविवृतिविभूषितम् २१७ प्यघटः, सर्वदा घटाऽभावप्रसक्तिः, एकान्तरूपत्वेऽप्ययमेव प्रसङ्ग इत्यसत्त्वादेवावाच्यः ॥ ४ ॥
अथवा, तस्मिन्नेव मध्यावस्थास्वरूपे वर्तमानाऽवर्तमानक्षणरूपतया सदसत्त्वात् प्रथम-द्वितीयभङ्गौ, ताभ्यां युगपदभिधातुमशक्तेरवाच्यलक्षणस्तृतीयः, तथाहि-यदि वर्तमानक्षणवत् पूर्वोत्तरक्षणयोरपि घटः स्यात् तर्हि वर्तमानक्षणमात्रमेवासौ स्यात् , पूर्वोत्तरयोर्वर्तमानताप्राप्तेः, न च वर्तमानक्षणमात्रमपि, पूर्वोत्तरापेक्षस्य तदभावेऽभावात् , अथातीता-ऽनागतक्षणवद् वर्तमानक्षणरूपतयाप्यघटः, एवं सति सर्वदा तस्याभावप्रसक्तिः, एकान्तपक्षेऽप्ययमेव दोष इत्यभावादेवावाच्यः॥५॥ न्तकस्वरूपत्वोपगमेऽपि परस्परसापेक्षमनेकान्तरूपमेव, न त्वेकान्तं घटस्वरूपमघटस्वरूपं वा समस्तीत्यतो घटस्याभावप्रसङ्ग एवेति कृत्वाऽवक्तव्य एवेत्याह-एकान्तरूपत्वेऽपीति । ___ उक्तभङ्गत्रयसमर्थनाय पञ्चमप्रकारमुपदर्शयति-अथवेति । कम्बुग्रीवाद्यवयवसन्निवेशवत्तयोत्पद्य यावत् तथाऽवतिष्ठते घटस्तावत्कालस्थायिनि मध्यावस्थास्वरूपे घट एव प्रयोगकालात्मकक्षणलक्षणवर्तमानरूपतया सत्त्वमुपादाय ‘स्यादस्त्येव घटः' इति प्रथमो भङ्गः, अतीतक्षणा-ऽनागतक्षणस्वरूपं तस्य पररूपमवर्तमानस्वभावम् , तद्रूपतयाऽसत्त्वमुररीकृत्य 'स्यान्नास्त्येव घटः' इति द्वितीयो भङ्गः, ताभ्यां सदसत्त्वाभ्यां युगपद्विवक्षिताभ्यामभिधातुमशक्यत्वादवक्तव्यत्वं समाश्रित्य 'स्यादवक्तव्य एव घटः' इति तृतीयो भङ्ग इत्याह-तस्मिन्नेवेति । अत्रोपदर्शिततृतीयभङ्गं भावयति तथाहीति । युगपद्विवक्षितोभयरूपेणार्थो घट इत्येवमभिधातुमशक्य इत्याह-यदि वर्तमानक्षणवदिति-वर्तमानक्षणरूपघटस्तदैव पूर्वोत्तरक्षणयोरपि भवेद् यदि पूर्वोत्तरक्षणौ वर्तमानौ स्यातामित्यभिसन्धिः । अपि चाऽतीता-ऽनागतक्षणापेक्षया हि वर्तमानक्षणरूपता भवति, अतीता-ऽनागतक्षणयोरवधिभूतयोरभावे तदवधिकं वर्तमानक्षणरूपत्वमपि न सम्भवतीत्याह-न च वर्तमानक्षणमात्रमपीति । 'पूर्वोत्तरापेक्षस्य' इत्यनन्तरं 'तस्य' इति दृश्यम्, वर्तमानक्षणस्येति तदर्थः । तदभावे पूर्वोत्तरक्षणयोरभावे । युगपद्विवक्षिताभ्यामर्थोऽघट इत्येवमभिधातव्य इत्येवमभ्युपगमे त्वाह-अतीतेति। एवं सति वर्तमानक्षणरूपतयाऽप्यघटत्वे सति। तस्य घटस्य । अभावादेव तथाविधाभिधेयपरिणत्यभावादेव।