________________
२१८
अनेकान्तव्यवस्थाप्रकरणम् । यद्वा क्षणपरिणतिरूपे घटे लोचनजप्रतिपत्तिविषयत्वा-ऽविषयत्वाभ्यां सदसत्त्वात् प्रथम-द्वितीयौ भङ्गो, ताभ्यां युगपदादिष्टोऽवाच्यः, तथाहि-लोचनजन्यप्रतिपत्तिविषयत्वेनेव यदीन्द्रियान्तरजप्रतिपत्तिविषयत्वेनापि घटः स्यात् तर्हि, इन्द्रियान्तरकल्पनावैयर्थ्यप्रसक्तिः, इन्द्रियसङ्करप्रसक्तिश्च, अथेन्द्रियान्तरजप्रतिपत्तिविषयत्वेनेव चक्षुर्जप्रतिपत्तिविषयत्वेनाऽपि न घटस्तर्हि तस्याऽरूपत्वप्रसक्तिः, एकान्तवादेऽपि तदितराऽभावे तस्याप्यभावादवाच्य एव ॥ ६ ॥
अथवा, लोचनजप्रतिपत्तिविषये तस्मिन्नेव घटशब्दवाच्यता निजं रूपम् , कुटशब्दाभिधेयत्वमर्थान्तरभूतं रूपम् , ताभ्यां सदसत्त्वात् प्रथम-द्वितीयौ, युगपत् ताभ्यामभिधातुमिष्टोऽवाच्यः, यदि घटशब्द
उक्तभङ्गत्रयसमर्थक षष्ठं प्रकारं दर्शयति-यद्वेति । लोचनजप्रतिपत्तिविषयत्वं क्षणपरिणतिरूपस्य घटस्य निजं रूपम् , तेन रूपेण सत्त्वमुपादाय 'स्यादस्त्येव घटः' इति प्रथमो भङ्गः,लोचनजप्रतिपत्त्यविषयत्वमत्र लोचनमिन्नेन्द्रियजप्रतिपत्तिविषयत्वम् , तच्च पररूपम् , तेनासत्त्वमाश्रित्य 'स्यान्नास्त्येव घटः' इति द्वितीयो भङ्गः, लोचमजप्रतिपत्तिविषयत्वापेक्षसत्त्व-लोचनभिन्नेन्द्रियजप्रतिपत्तिविषयत्वापेक्षाऽसत्त्वाभ्यां युगपदादिष्टो घटस्तथाऽभिधातुमशक्य इत्यवक्तव्यत्वमवलम्ब्य 'स्यादवक्तव्य एव घटः' इति तृतीयो भङ्ग इत्याह-क्षणपरिणतिरूप इति । अवाच्यत्वमेवोपपादयति-तथाहीति । तत्र तथाविवक्षायां घट इत्येवं वक्तुमशक्य इति समर्थयतिलोचनजन्येति । अघट इत्येवं वक्तुं न पार्यत इति समर्थयितुमाह-अथेति-अन्यत् स्पष्टम् ।
उक्तभङ्गत्रयसमर्थकं सप्तमप्रकारमुपदर्शयति-अथवेति । निजरूपेण घटशब्दवाच्यत्वेन सत्त्वमुपादाय 'स्यादस्त्येव घटः' इति प्रथमो भङ्गः, अर्थान्तरभूतेन कुटशब्दवाच्यत्वेनाऽसत्त्वमुपादाय 'स्यान्नास्त्येव घटः' इति द्वितीयो भङ्गः, युगपत् ताभ्यामादिष्टो घटो न केनाऽपि शब्देन वाच्य इत्यवक्तव्यत्वमङ्गीकृत्य 'स्यादवक्तव्य एव घटः' इति तृतीयो भङ्ग इत्याह-लोचनजप्रतिपत्तिविषय इति । अवाच्यत्वं भावयितुमाह-यदि घटशब्दवाच्यत्वेनेवेति-अनेन घट इत्येवं वक्तुमशक्य