________________
२१२ अनेकान्तव्यवस्थाप्रकरणम् । द्यर्थान्तरप्रतिषेध इति चेत् ? न-पटादेतत्राभावाभावे घटशब्दप्रवृत्तिनिमित्तस्य घटत्वस्यैवासिद्धेः, शब्दानां चार्थज्ञापकत्वं न कारकत्वमिति तथाभूतार्थप्रकाशनं तथाभूतेनैव शब्देन विधेयमिति नासम्बद्धस्तत्र पटाद्यर्थप्रतिषेधः, तथापि 'स्वद्रव्यादिना सन्नेव' इत्यत एव
वाच्योपस्थितिप्रकारत्वमपि तत्र समस्ति, न च पटनिषेधरूपस्यासत्त्वस्य प्रवेश इति घटशब्दप्रवृत्तिनिमित्ते विधिरूपे घटत्वेऽसम्बद्ध एव पटाद्यर्थान्तरप्रतिषेध इति तत्प्रतिपादकद्वितीयभङ्गाऽसम्भव इति शङ्कार्थः । घटो यदि पटाद्यात्मना सङ्कीर्णः स्यात् तदा पटाद्यवर्तिनो घटत्वस्य न तत्र वृत्तित्वं भवेत् , अन्यथा पटत्वादेरपि तत्र वृत्तित्वं स्यादिति घटे परादेरभावस्याभावे घटत्वस्य घटपदप्रवृत्तिनिमित्तत्वमेव न स्यात् तादृशघटलक्षणवाच्यवृत्तित्वाभावाद्, अतस्तत्र पटादिनिषेधलक्षणासत्त्वमभ्युपेयमिति 'स्यान्नास्त्येव घटः' इति द्वितीयभङ्गः स्यादेवेति समाधत्ते-नेति । 'पटादेः' इत्यस्य 'अभावाभावे' इत्यत्र प्रथमाभावेऽन्वयः, सप्रतियोगिकाभावप्रतिपादकाभावपदस्य समासाऽघटकीभूतपटादेरित्यान्वितार्थप्रतिपादकत्वेऽपि नित्यसाकाङ्क्षत्वेन न सामर्थ्यहानिः 'सापेक्षमसमर्थवद् भवति' इत्यत्र नित्यसापेक्षभिन्नसापेक्षस्यैवासामऑतिदेशात् , अत एव
"प्रतियोगिपदादन्यद्, यदन्यत् कारकादपि ।
वृत्तिशब्दैकदेशार्थे न तस्यान्वय इष्यते ॥[ ] इति वचनात् प्रतियोगिपदादिभिन्नपदार्थस्यैव समासघटकीभूतपदार्थान्वयप्रतिषेध इति सङ्गच्छते । तत्र घटे । यदा च पटादिनिषेधसंवलित एव घटो विधिरूपः, तदा तत्र विधिविधायकशब्दप्रवृत्तिवद् निषेधविधायकशब्दस्यापि प्रवृत्तिः स्यादेव तत एव विधि-निषेधात्मकार्थावगतिः, यादृशोऽर्थः प्रतिपाद्यस्तस्य तथाभूतार्थप्रतिपादकशब्देनैव प्रकाशनमुचितमिति द्वितीयभङ्गस्य विधिसम्बद्धनिषेधरूपार्थप्रतिपादकस्य युक्तत्वमेवेत्याशयेनाह-शब्दानामिति । तथाभूतेति-विधि-निषेधात्मकेत्यर्थः, एवमग्रेऽपि । यदा यस्यार्थस्य खद्रव्यादिना सत्त्वमवगम्यते येन वाक्येन तजन्यप्रतिबोध एव तदानीं तदन्यरूपेणाऽसत्त्वमपीति प्रतिभासत एव, स्वद्रव्यादिना सत्त्वस्यापरद्रव्यादिनाऽसत्त्वस्य समानसंविसंवेद्यत्वाद् द्वितीयभङ्गार्थस्य प्रथमभङ्गत एवावगमात् तद्भङ्गो न प्रयोक्तव्य एवाऽनर्थकत्वादिति शङ्कते-तथाऽपीति-निषेधस्य सम्भवे