________________
तत्त्वबोधिनीविवृतिविभूषितम् २११ सदसतोरित्यवधेयम् । वस्तुत एकपदजनितप्रातिखिकधर्मद्वयावच्छिन्नविशेष्यताकशाब्दबोधाविषयत्वेनावक्तव्यत्वं प्रकृतेऽव्याहतम्, अत एव कर्मधारयाख्यं सामासिकमेकपदमादायापि न दोषः, तज्जम्यबोधे उभयनिरूपितैकविशेष्यताभ्युपगमेन यथोक्ताऽवाच्यत्वाक्षतेरिति दिक् ।
ननु च घटशब्दप्रवृत्तिनिमित्ते विधिरूपेऽसम्बद्ध एव तत्र पटा
तितपदस्य वाच्यत्वेऽपि सम्भवोऽस्त्येवेत्याह-वस्तुत इति-सदसदुभयत्वावच्छिन्ने कस्यचित् पदस्य सङ्केतकरणे तद्रूपेणैव तस्य बोधो न प्रत्येकरूपेणेत्येकपदजनितप्रातिस्विकधर्मद्वयावच्छिन्नविशेष्यताकबोधो न ततो भवेत् किन्तूभयत्वेनैव रूपेणोक्तधर्मद्वयस्यावच्छेदकत्वं समाश्रित्य तदवच्छिन्नविशेष्यताकबोध इति प्रत्येकधर्मद्वयावच्छिन्नविशेष्यताकशाब्दबोधाविषयत्वेनावक्तव्यत्वं स्यादेवेत्यर्थः । अत एवेति-यत एवोक्तदिशाऽवक्तव्यत्वमव्याहतमेतस्मादेव हेतोरित्यर्थः । कर्मधारयाख्यमिति-यद्यपि कर्मधारयसमासघटकक्लप्तशक्तिकपदद्वयादेवाऽऽकालाबलात् पदार्थद्वयाऽमेदान्वयविषयकशाब्दबोधस्योपपन्नत्वेन समासस्य शक्त्यभ्युपगमे मानाऽभावाच्छक्तत्वलक्षणपदत्वं न कर्मधारय इति, तथाऽपि समासस्य वृत्तिमत्व एवार्थवत्त्वेन प्रातिपदिकत्वसंज्ञकत्वेन विभक्तिप्रकृतित्वमिति भवति कर्मधारयाख्यं सामासिकमेकपदमित्यभिसन्धिः । न दोषः तद्वाच्यत्वेन वक्तव्यत्वतोऽवक्तव्यत्वक्षतिलक्षणो दोषो न । तत्र हेतुमाहतजन्यबोध इति-कर्मधारयाख्यसामासिकैकपदजन्ये तदर्थान्विताऽन्यार्थबोधे । उभयेति-कर्मधारयसमासलक्षणपदवाच्येन निरुक्तोभयेन प्रकारीभूतेन निरूपिताया पदान्तरैकार्थनिष्ठविशेष्यता तस्या अभ्युपगमेन, यथोक्तस्य-एकपदजनितप्रातिखिकधर्मद्वयावच्छिन्नविशेष्यताकशाब्दबोधाऽविषयत्वलक्षणस्य, अवक्तव्यत्वस्य, अक्षतेःक्षत्यभावादित्यर्थः । ___ घटे पटाद्यर्थान्तरप्रतिषेध एव नास्तीति तद्रूपस्यासत्त्वस्य घटेऽन्वयस्यासम्भवान द्वितीयभङ्गसम्भव इति शङ्कते-नन्विति । घटशब्दप्रवृत्तिनिमित्त इति-वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारत्वं प्रवृत्तिनिमित्तत्वम् , तच्च घटशब्दस्य घटत्वं विधिरूपं भवति, यतस्तद् घटपदस्य वाच्यमिति प्रथमसत्यन्तं तत्र विद्यते, घटशब्दवाच्यायां घटव्यक्तौ तस्य वृत्तित्वाद् द्वितीयसत्यन्तमपि तत्र समस्ति, घटशब्देन घटत्वप्रकारकव्यक्तिविशेष्यकोपस्थितिरुपजायते, तत्र घटत्वं प्रकार इति