________________
२१०
अनेकान्तव्यवस्थाप्रकरणम् । न च समूहालम्बनविकल्पमादाय नायं दोषः, तादृशविकल्पप्रभवपदानां बुद्धिविशेषविषयतावच्छेदकत्वोपलक्षितनानाशक्यतावच्छेदकत्वेन परमार्थतो नानार्थस्थानीयत्वात् , तेभ्यः प्रकरणादिनियन्त्रितप्रतिनियतैकार्थबोधस्यैवैकदा सम्भवात् । न च, येषां वैकल्पिकपदानां मिलितोभयबोधकस्वाभाव्यं तान्यादाय नावाच्यत्वमिति वाच्यम् , सदसदुभयसाङ्केतिकपदस्य पुष्पदन्तादिवद् द्वित्वविश्रान्तत्वेनैकत्वावच्छिन्ने द्वित्वावच्छिन्नान्वयस्य निराकाङ्क्षत्वादेवावाच्यत्वसिद्धेः, अत एव वस्त्वादिपदानि जैनैः सदसदुभयात्मकैकजात्यन्तरे सङ्केत्यन्ते, न तु
च्यत्वं तदुभयस्य स्यादित्याशङ्कां प्रतिक्षिपति-न चेति । 'नानाशक्यतावच्छेदक' इत्यत्र बहुव्रीहिः यथा नानार्थकतत्पदादितो न युगपदेव नानार्थस्य बोधः, किन्तु यस्यार्थस्य प्रतिनियतार्थबोधकप्रकरणादिकं तस्यैव बोधः, तथा प्रकृतेऽपि अस्तित्वादेर्यस्यैव प्रकरणादिकं तस्यैव बोध एकदा भवेदित्याह-तेभ्य इति-नानार्थस्थानीयपदेभ्य इत्यर्थः । 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः, । तान्यादाय मिलितो. भयबोधकस्वभाववैकल्पिकपदान्यादाय । 'नावाच्यत्वम्' इत्यत्र निषेधद्वयाद् वाच्यत्वमिवेत्यर्थः, यथा पुष्पदन्तपदम् “एकयोक्त्या पुष्पदन्तौ दिवाकर निशाकरौं" इति वचनाचन्द्र-सूर्योभयत्वावच्छिन्नस्यैव वाचकमिति तदर्थस्य चन्द्र-सूर्यगतद्वित्वावच्छिन्नस्य न प्रत्येकमेकत्वावच्छिन्ने चन्द्रे सूर्ये चान्वयः, तथैव सदसदुभयसाङ्केतिकपदवाच्यस्य सदसदुभयत्वावच्छिन्नस्य न कस्मिंश्चिदेकत्वावच्छिन्ने निराकाङ्क्षत्वादन्वयः, तथोच्यमानमपि न केनचिंदन्वेतीत्यपार्थकमेव तद्वचनम् , शाब्दबोधार्थमेव तत्तदर्थवाचकपदस्याश्रयणात् प्रकृतेऽन्वयबोधलक्षणशाब्दबोधाभावेन फलाभावान वाच्यत्वं कस्यचिदपीत्यर्थः, यत एव द्वित्वावच्छिन्नस्य निराकाङ्क्षत्वान्न कस्मिंश्चिदप्येकत्वावच्छिन्नेऽन्वयस्तत एव सदसदुभयात्मकत्वेन जात्यन्तरमेकमेव वस्तु शब्दवाच्यमभ्युपगच्छन्ति जैनाः, तस्य पदार्थान्तरान्वयसम्भवेन साकाङ्क्षतयाऽन्वयबोधविषयत्वतस्तद्वाचकशब्दस्य शाब्दबोधार्थमुपादानसम्भवादित्याह-अत एवेति । 'न तु सदसतोः' इत्यत्रानुकर्षेण 'वस्त्वादिपदानि सङ्केत्यन्ते' इत्यस्य सम्बन्धः । यादृशमवक्तव्यत्वमस्मदभिमतं तादृशस्य तस्य सत्त्वासत्त्वोभयस्मिन् कस्यचित् साङ्के