________________
तत्त्वबोधिनीविवृतिविभूषितम्
२०९
तत्वेन द्रव्य एवोत्कटतात्पर्यमित्याशयात् । अत एव न वाक्यमपि तथाभूतगुणद्वयप्रतिपादकं सम्भवति, तस्य वृत्त्यसम्भन्नार्थत्वात्, न च केवलं पदं वाक्यं वा लोकप्रसिद्धम्, तस्यापि परस्परापेक्षद्रव्यादिविषयतया तथाभूतार्थप्रतिपादकत्वायोगात् न च ' तौ सत्' इति शतृशानश्वयोरिव साङ्केतिकपदवाच्यत्वम्, विकल्पप्रभवशब्दवाच्यत्वप्रसक्तेः, विकल्पानां च युगपदप्रवृत्तेर्नैकदा तयोस्तद्वाच्यतासम्भवः,
"
त्वोभयवाचकत्वमिति व्यवस्थितम्, व्यासवाक्यस्यापि समासासम्भिन्नार्थकत्वेन समासस्य युगपदस्तित्वनास्तित्वोभयावाचकत्वे तस्यापि तदवाचकत्वमेवेत्याह-अत एवेति । समासस्य युगपदस्तित्व - नास्तित्वोभयावाचकत्वादेवेत्यर्थः । तथाभूतेतियुगपद्विवक्षितेत्यर्थः । तस्य वाक्यस्य वृत्त्यसम्भिन्नार्थत्वात् । समाससमानार्थकत्वात्, समासस्य तथाभूतगुणद्वयप्रतिपादकत्वाभावे व्यासवाक्यस्यापि तत्समानार्थकस्य तथाभूतगुणद्वयप्रतिपादकत्वाभावादिति यावत् । न च इत्यस्य 'लोकप्रसिद्धम्' इत्यनेनान्वयः । तस्यापि केवलपदस्य केवलवाक्यस्यापि च । तथाभूतार्थेतियुगपद्विवक्षितास्तित्व-नास्तित्वोभयार्थेत्यर्थः । ननु शतृशानचोः सङ्कोतितेन सत्पदेन शतृशान चोरुभयोरपि यथा प्रतीतिः, तथाऽस्तित्व - नास्तित्वयोरपि एकं सत्पदं सङ्केतितम्, सङ्केतोऽपि तस्य 'तौ सत्' इत्येवंरूपः तथा च सङ्केतिकस्य सत्पदस्या - न्यपदस्य नोभयत्र सङ्केतितस्य तदुभयवाचकत्वं स्यादित्याशङ्क्य प्रतिक्षिपति न चेति । लोके शास्त्रं चाऽस्तित्व - नास्तित्वोभयस्मिन्न वृद्धपरम्परासङ्केतितः प्रवर्तमानः कोऽपि शब्दः समस्ति, किन्तु विकल्पत एव कश्चिच्छब्दस्तत्र परिभाषितः स्यात् तथा च सति विकल्पशब्दवाच्यत्वं तदुभयस्य कल्प्येत, न चेयं कल्पना सम्भवदर्थिका, यतो विकल्पस्य यद्विषयकत्वं तत्प्रभवशब्दस्य तद्वाचकत्वमेव, विकल्पस्य चैकैकस्य प्राधान्येनैकैकास्तित्वादिविषयकत्वमेवेत्यतस्तत्प्रभवशब्दस्याप्येकैकस्यैवा स्तित्वादेः प्राधान्येन वाचकत्वमिति न साङ्केतिकपदवाच्यत्वमपि युगपदस्तित्वना स्तित्वोभयस्येति निषेधहेतुमुपदर्शयति-विकल्पप्रभवेति । युगपदप्रवृत्तेः, युगपदस्तित्व-नास्तित्वोभयविषयकत्वेनाप्रवृत्तेः । तयोः अस्तित्व - नास्तित्वयोः । तद्वाच्यतासम्भवः साङ्केतिकपदवाच्यतासम्भवः । नन्वस्तित्व - नास्तित्वोभयविषयकोऽपि समूहालम्बनात्मक एको विकल्पः समस्त्येवेति तत्प्रभवशब्दस्य तदुभयवाचकस्य सम्भवतस्तद्वाअ. व्य. १४