________________
२०८
अनेकान्तव्यवस्थाप्रकरणम् ।
त्वाद् द्विगोः संख्याकाचिपूर्वपदत्वात् , कर्मधारयस्यापि गुणाधारद्रव्यविषयत्वात्, न च समासान्तरसद्भावः, येन युगपद् गुणद्वयं प्रधानभावेन समासपदवाच्यं स्यात् । अथ द्रव्यान्वयव्यवधानेन क्रियान्वयित्वरूपप्राधान्यं प्रथम-द्वितीयभङ्योरतिप्रसक्तम् , उत्कटताऽपर्यविषयत्वरूपप्राधान्यग्रहणे च प्रकृते द्वन्द्व-कर्मधारययोरपि प्राधान्येन गुणद्वयवाचकतायां न क्षतिरिति चेत् ? न-द्वन्द्वे द्विवचनाद् भेदोपस्थितौ निरवयवप्रतीतिव्याघातः, कर्मधारये च विशेष्यतयाऽभ्यर्हि
कर्मधारयस्याऽपीति । ननूक्तसमासादन्य एव कश्चित् समास एतदुभयप्रतिपादक भविष्यतीत्यत आह-न चेति-उक्तषधिसमासाद् भिन्नः समासो नास्त्येवेत्यर्थः । येन समासान्तरवाच्यत्वेन । अथेति-ननु सत्त्वा-ऽसत्त्वयोः प्राधान्यं किमत्राऽभिमतमायुष्मतः? यदि द्रव्यान्वयव्यवधानेन क्रियान्वयित्वं तदा प्रथम-द्वितीयभङ्गयोरपि द्रव्यान्वयव्यवधानेन क्रियान्वयित्वस्य सत्त्वा-ऽसत्त्वयोः सत्त्वात् तावुभौ प्राधान्येन तदुभयप्रतिपादको स्यातामित्यतिप्रसङ्गः यद्यपि प्रथमभङ्गे सत्त्वस्यैवोल्लेखस्तथाऽप्युपसर्जनतयाऽसत्त्वस्यापि द्रव्ये प्रतिभासनं समस्तीति द्रव्यद्वाराऽसत्त्वस्यापि क्रियान्वयित्वम्, न च प्रथमभङ्गेऽसत्त्वस्य प्राधान्यमभिप्रेतमित्यतिप्रसङ्गः, एवमेव द्वितीयभङ्गेऽपि द्रव्ये सत्त्वस्याप्युपसर्जनभावेन प्रतिभासनमिति द्रव्यान्वयव्यवधानेन क्रियान्वयित्वं तस्यापीत्येवमतिप्रसङ्गो ज्ञेयः उत्कटतात्पर्यविषयत्वलक्षणं यदि प्राधान्यं तदाऽस्तित्वनास्तित्ववाचकपदद्वयद्वन्द्वसमासे कर्मधारये चाऽस्तित्व-नास्तित्वगुणविशिष्टद्रव्यवाचकपदद्वयस्य कृते उत्कटतात्पर्यविषयत्वमस्त्येवास्तित्व-नास्तित्वयोरिति प्राधान्येनास्तित्व-नास्तित्वबोधकद्वन्द्व-कर्मधारयसमासवक्तव्यत्वमेव युगपदस्तित्व-नास्तित्वयोरिति न तृतीयभङ्गसम्भव इत्याह-उत्कटतात्पयविषयत्वरूपप्राधान्यग्रहण इति। द्वन्द्वसमासश्च द्विवचनान्तो भवति, द्विवचनोपस्थितद्वित्वं च पदार्थयोरन्वेतीति ततः पदार्थद्वयभेदप्रतीतेरवश्यम्भावेन न निरवयवप्रतीतिसम्भवः, विवक्षितयुगपदस्तित्व-नास्तित्वोभयं चाखण्डमेवाभिमतमित्यभिमतप्रतीतेरभावन्न द्वन्द्वसमासोऽभिमतविवक्षितगुणद्वयवाचकः, उत्कटतात्पर्यविषयत्वमेव प्राधान्यमनुमतम् , कर्मधारये च द्रव्यस्यैव विशेष्यतयाऽभ्यर्हितत्वे नोत्कटतात्पर्यविषयत्वम् , न तु गुणस्येति नाभिमतप्राधान्ययोगिगुणद्वयवाचकत्वं कर्मधारयस्येति समाधत्ते-नेति । एतावता समासषट्कस्य न युगपदस्तित्व-नास्ति