________________
तत्त्वबोधिनीविवृतिविभूषितम् २०७ तावत् समासवचनं तत्प्रतिपादक, समासषट्के बहुव्रीहेरन्यपदार्थप्रधानत्वात् , प्रकृते चोभयप्राधान्यविवक्षणात् , अव्ययीभावस्य चात्रार्थेऽप्रवृत्तेः, द्वन्द्वस्य चोभयपदप्राधान्येऽपि द्रव्यवृत्तेः प्रकृतार्थाऽप्रतिपादकत्वाद् , गुणवृत्तेरपि द्रव्याश्रितगुणप्रतिपादकत्वात् , द्रव्यमन्तरेण गुणानां तिष्ठतीत्यादिक्रियाधारत्वासम्भवात् , तस्या द्रव्याश्रितत्वाद्, एवं च प्रधानभूतयोर्गुणयोरप्रतिपत्तेः, तत्पुरुषस्याप्युत्तरपदार्थप्रधान
भयधर्मप्रतिपादकत्वाभावमावेदयति-समासषव इति, प्रकृतेच सत्त्वा-ऽसत्त्वोभयप्रतिपादकतृतीयभङ्गे च । अव्ययीभावसमासस्त्वव्ययेनैव समं पदान्तरस्य भवति, तस्य नैतादृशार्थप्रतिपादकत्वमित्येतावतैव नोक्तोभयप्रतिपादकोऽव्ययीभाव इत्याहअव्ययीभावस्य चेति । द्वन्द्वसमासस्यापि न युगपद्विवक्षितोभयधर्मप्रतिपादकत्वमित्याह-द्वन्द्वस्य चेति । द्रव्यवृत्तेः द्रव्यप्रतिपादकस्य तस्य। प्रकृतेति-प्रकृतोऽर्थः सत्त्वादिर्गुणरूपः, न द्रव्यरूपः, तस्याप्रतिपादकत्वादित्यर्थः । ननु गुणवृत्तिरपि द्वन्द्वसमासो भवति, स एव गुणस्वरूपस्य सत्त्वा-ऽसत्त्वोभयस्य प्रतिपादको भविष्यतीत्यत आह-गुणवृत्तेरपीति-द्रव्याश्रितगुणप्रतिपादने च द्रव्यस्य प्राधान्यं न गुणस्य, प्रकृते तु गुणस्य प्राधान्येन प्रतिपादनमभिलषितमतो न गुणवृत्तेवृत्तेरपि द्वन्द्वस्य युगपत्सत्त्वा-ऽसत्त्वोभयप्रतिपादकत्वमित्याशयः । गुणवृत्तिद्वन्द्वस्य कथं द्रव्याश्रितगुणप्रतिपादकत्वमेवेत्यपेक्षायामाह-द्रव्यमन्तरेणेति-क्रियान्वयमन्तरेणैव गुणप्रतिपादको द्वन्द्वो युगपत्तदुभयप्रतिपादको भविष्यतीति तु न शङ्कयं 'सर्वं हि वा वाक्यं क्रियायां परिसमाप्यते' इति वचनाद् वाक्यमात्रस्य क्रियावाचकपदघटिततयाँ क्रियान्वयस्यावश्यकत्वात् । ननु गुणानामपि द्रव्यमन्तरेणापि क्रियाधारत्वमस्त्वित्यत आह-तस्या इति-क्रियाया इत्यर्थः । तथा च द्वन्द्वेन प्रधानभूतसत्त्वाऽसत्त्वात्मकगुणद्वयप्रतिपत्तिर्न सम्भवतीति न द्वन्द्वस्य तत्प्रतिपादकत्वसम्भव इत्युपसंहरति-एवं चेति । प्रकृते उभयस्य प्राधान्यं विवक्षितं तत्पुरुष तूत्तरपदार्थस्यैव प्राधान्यमतो न तत्पुरुषोऽपि युगपत्सत्त्वाऽ-सत्त्वोभयप्रतिपादक इत्याह-तत्पुरुषस्याऽपीति । द्विगोरपि नोक्तप्रतिपादकत्वमित्याह-द्विगोरिति । गुणाधारद्रव्यविषयत्वेन पदार्थद्वयाभेदबोधकस्य कर्मधारयस्यापि न युगपत्सत्त्वा-ऽसत्त्वोभयप्रतिपादकत्वमित्याह