________________
२०६ अनेकान्तव्यवस्थाप्रकरणम् । तद्वाक्यं सप्तभङ्ग्यात्मकमुपदर्यते-स्यादस्त्येव घटः १, स्यान्नास्त्येव २, स्यादवक्तव्य एव ३, स्यादस्त्येव स्यान्नास्त्येव ४, स्यादस्त्येव स्यादवक्तव्य एव ५, स्यान्नास्त्येव स्यादवक्तव्य एव ६, स्यादस्येव स्यानास्त्येव स्यादवक्तव्य एव ७ चेति । तत्राऽसत्त्वोपसर्जनसत्त्वविवक्षायां प्रथमो भङ्गः १, सत्त्वोपसर्जनाऽसत्त्वविवक्षायां द्वितीयः २, युगपदुभयविवक्षायां तृतीयः ३, द्वयोर्धर्मयोः प्राधान्येन गुणभावेन वा प्रतिपादने कस्यापि वचसः सामर्थ्याभावात् , तथाहि-न
परिनिष्ठां गतं जिनप्रवचनं येषु ते परिणतजिनप्रवचनास्तेषां परिणतजिनप्रवचनानाम् , परिकर्मितमतीनां श्रोतृणां स्याद्वाददेशनाया एव स्वाभिमतानेकान्ततत्त्वावबोधसाधनत्वेन, अभ्यर्हितत्वाद् उपादेयत्वात्, तद्वाक्यं स्याद्वाददेशनात्मकं वाक्यं सप्तभङ्ग्यात्मकम् , उपदर्यते प्रतिपाद्यत इत्यर्थः । स्यादस्त्येव घट इतिकथञ्चिदस्तित्वप्रकारकघटविशेष्यकबोधजनकः प्रथमो भङ्ग इत्यर्थः। 'स्यान्नास्त्येव' इत्यत्राऽपि विशेष्यवाचकं घटपदमनुवर्तते, एवमग्रिमभङ्गेष्वपि, तथा च कथञ्चिन्नास्तित्वप्रकारकघटविशेष्यकबोधजनको द्वितीयो भङ्गः, एवं तृतीयादिभङ्गेष्वपि बोधप्रकाराः समवसेयाः । तत्र तेषु सप्तसु भङ्गेषु मध्ये। असत्त्वेति-असत्त्वमुपसर्जनीकृत्य प्राधान्येन सत्त्वविवक्षायां 'स्यादस्त्येव घटः' इति प्रथमो भङ्ग उपतिष्ठत इत्यर्थः । सत्त्वेति- सत्त्वमुपसर्जनीकृत्य प्राधान्येनाऽसत्त्वविवक्षायां 'स्यान्नास्त्येव घटः' इति द्वितीयो भङ्गः प्रवर्तत इत्यर्थः । युगपदिति- योगपद्येन सत्त्वा-ऽसत्त्वोभयविवक्षायां विवक्षितोभयधर्मप्रतिपादकस्य कस्यचिदपि समासवाक्यस्य व्यासवाक्यस्य वाऽभावात् 'स्यादवक्तव्य एव घटः' इति तृतीयभङ्गोऽवतरतीत्यर्थः । तृतीयभङ्गस्यैवोपपादनायाह-द्वयोरिति । युगपद्विवक्षितसत्त्वा-ऽसत्त्वोभयधर्मप्रतिपादने न कस्यापि वचनस्य सामर्थ्यमित्येव भावयति-तथाहीति । तत्र समासवचनस्योभयधर्मप्रतिपादनसाम
•भावमावेदयति-न तावदिति। तत्प्रतिपादकं युगपत्सत्त्वा-ऽसत्त्वोभयधर्मप्रतिपादकम् । प्रत्येकं सर्वसमासानां तत्प्रतिपादकत्वाभावे सिद्धे सति समाससामान्यस्यापि तत्प्रतिपादकत्वाऽभावोऽर्थात् सिद्ध्यत्येव, यावद्विशेषातिरिक्तसामान्याभावादिति यावन्तः समासविशेषास्तेषां प्रत्येकं युगपद्विवक्षितसत्त्वा-ऽसत्त्वोभयप्रतिपादकत्वाऽभावोपपादनादृतप्रयत्नो ग्रन्थकार आदौ बहुव्रीहेरन्यपदार्थप्रधानत्वेन युगपद्विवक्षितो