________________
तत्त्वबोधिनीविवृतिविभूषितम्
२०५
पुरुषजातम् - प्रतिपन्नद्रव्य - पर्यायान्यतरस्वरूपं श्रोतारम्, प्रतीत्यआश्रित्य, ज्ञकः - स्याद्वादविद्, प्रज्ञापयेत्, अन्यतरत् - अज्ञातम्, परिकर्मनिमित्तम् अज्ञातांशसंस्कारपाटवार्थम्, ततः परिकर्मितमतये स्थापयिष्यत्यसौ स्याद्वादविशेषमपि परस्पराऽविनिर्भागरूपम्, ततश्चेयमेकनयदेशनाऽपि भावतः स्याद्वाददेशनैवेति फलितम् ॥
अतः स्याद्वाददेशनाया एव परिणतजिनप्रवचनानामभ्यर्हितत्वात्
www.
अत्रापि सम्मतिसंवादमाह तदाहेति । पुरिस० इति – “पुरुषजातं तु प्रतीत्य ज्ञायकः प्रज्ञापयेदन्यतरत् । परिकर्मणानिमित्तं स्थापयिष्यति स विशेषमपि” इति संस्कृतम्। विवृणोति–पुरुषजातमिति । प्रतिपन्नेति - ज्ञातेत्यर्थः । अन्यतरत्अज्ञातमिति - यः पुरुषो द्रव्यखरूपं जानाति न पर्यायस्वरूपं तं प्रति स्याद्वादज्ञः पर्यायखरूपं प्रतिपादयेत्, यश्च पुरुषः पर्यायस्वरूपं जानाति द्रव्यस्वरूपं नावगच्छति तं प्रति स्याद्वादशः द्रव्यस्वरूपं प्रज्ञापयेदित्यर्थः । किमर्थमन्यतरदेव प्रज्ञापयेदित्याकाङ्क्षोपशान्तये त्वाह- परिकर्मनिमित्तमिति - एतद्विवरणम् - अज्ञातांशसंस्कारपाटवार्थमिति - वस्तुनो द्रव्य-पर्यायोभयात्मकत्वेन द्रव्यं पर्यायश्च प्रत्येकं तदंशो भवति, तत्र द्रव्यमेव यो जानाति तं प्रत्यज्ञातोंऽशः पर्याय एव यश्व पर्यायमेव जानाति तं प्रत्यज्ञातो वस्त्वंशो द्रव्यमेव, ततश्चाज्ञातस्य पर्यायांशस्य संस्कारपाटवार्थम्, एवमज्ञातस्य द्रव्यांशस्य संस्कारपाटवार्थमित्यर्थः । इत्थं च प्रज्ञाप्यः श्रोता यदांशद्वयज्ञाता सम्पन्नस्तदा तं प्रति स्याद्वादविशेषमपि स्थापयितुं प्रभुः स्याद्वादज्ञ इत्याशयेनाह - तत इति - तदनन्तरमित्यर्थः । असौ स्याद्वादज्ञः । स्याद्वादविशेषः खरूपोपदर्शनायाह- परस्पराऽविनिर्भागरूपमिति - द्रव्यांशाविभक्तं पर्यायस्वरूपं पर्यायांशाविभक्तं द्रव्यस्वरूपमित्यर्थः । एवं सति यत् फलितं तद् दर्शयतिततश्चेति । भावत इति - यद्यप्येकनयदेशनात एकनयविषयीभूतार्थस्यैवामुखे प्रतीतिः तथापि वान्यनय- विषयीकृतार्थेन सह स्वविषयीकृतार्थस्याविभागवर्तित्वलक्षणान्योऽन्यसम्मिश्रणतोऽनेकान्तात्मकस्याद्वादार्थावगतिरुपजायत इत्येवं भावत इत्यर्थः ।
अत इति-यत एकनयदेशनाऽपि स्याद्वाददेशना स्वरूपैव परिकर्मितमतिं प्रति एतस्मादेव कारणादित्यर्थः । परिणतेति - स्वाभिप्रेतानेकान्तवस्तुतत्त्वावबोधकत्वेन,