________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १२१ न्यथासिद्धेस्तयापारानन्तरमपि घटादेरनुपलब्धिर्न भवेत् । तदा तस्य न स्वरूपप्रच्युतिरुत्पद्यते किन्तु तस्यैकक्षणावस्थायित्वेन तदाऽभवनमिति नोपालम्भ इति चेत् ? न-यतः वरूपादप्रच्युतस्य नाऽभवनं नाम किश्चित् , अन्यथा तस्य सत्त्वान्तरमभ्युपगतं स्यात् । अथ स एव न भवति न तु तस्यापरसत्त्वम् , ननु तदेवेदं पुना रूपाभवनमभिधीयते, तत्र च तदेवोत्तरम् , तस्माद् विनाशहेतुव्यापारानन्तरं पदार्थस्याऽसद्व्यवहारं विदधता तद्व्यतिरिक्तानन्तरग्रहणमभ्युपगन्तव्यम्, न तु तदग्रहणमात्रम्, अन्यथा तस्यारन्वय-व्यतिरेकान्यथासिद्धेः' इति पाठो युक्तः । बौद्धो मुद्गरादिव्यापारानन्तरं घटानुपलम्भे घटस्य तदाऽभवनमेव हेतुमाशङ्कतेतदेति-मुद्गगरादिव्यापारानन्तरमित्यर्थः । तस्य घटस्य, एवमग्रेऽपि । यदि स्वरूपान्न परिभ्रष्टस्तदानीं घटः, एवं तर्हि तस्य सत्त्वमेव तदानीं स्यान्नाऽभवनम् , एवमप्यभवनाभ्युपगमेऽभवनशब्देन तस्य सत्त्वान्तरमेवाभ्युपगतं. स्यादिति समाधत्ते-नेति । अन्यथा स्वरूपादप्रच्युतस्थाऽप्यभवनाभ्युपगमे । तस्य घटस्य । सत्त्वान्तरं पूर्वमुपलम्भप्रयोजकं यादृशं सत्त्वं ततो विलक्षणं सत्त्वम् । बौद्ध आह–अथेति । स एव घट एव । तस्य घटस्य । सिद्धान्ती आहनन्विति-यदेव पूर्वमभवनमुक्तं तदेवेदानीमप्यभिधीयते भवता, तथा च पूर्व यत् 'तत्र तस्य सत्त्वान्तरमभ्युपगतं स्याद्' इति प्रतिविधानमभिहितं तदेव प्रतिविधानं स्यादित्यर्थः । उपसंहरतितस्मादिति । विदधता कुर्वता बौद्धेन । तद्व्यतिरिक्तेति-विनश्यमानपदार्थव्यतिरिक्तो यस्तदनन्तरोत्पन्नः कश्चित् तस्य ग्रहणमवश्यं स्वी कर्तव्यमित्यर्थः । न तु तदग्रहणमात्रं समानसन्ततिपतितपदार्थाऽग्रहणमात्रम् । अन्यथा तद्ग्रहणमात्रस्याभ्युपगमे । तस्य तदग्रहणस्य । अभावेति-तदभावेत्यर्थः । एवं सति कल्पादिव्यवहितोऽपि पदार्थः