________________
१२२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् भावाऽनिश्चयात् कल्पादिव्यवहितस्यापि सयवहारनिषेध एव स्थानाऽसयवहारप्रवृत्तिः। न चार्थान्तरनाशानभ्युपगमे शत्रुमित्रक्षयजन्यसुख-दुःखाद्यनुभवोऽपि सङ्गच्छते, न चाऽभावस्य भवितृत्वे भावरूपता, भवितृत्वाऽविशेषेऽपि घट-पटयोरिव विलक्षणप्रत्ययविषयत्वेन भावाऽभावयोर्भेदसिद्धेः। अथ कपालोत्पत्तिकाले घटविनाशानभ्युपगमे स्वभावत एवाविनश्वरस्य घटस्य
स्वाग्रहणतः 'सन्' इति व्यवहर्तुं न शक्य इति तस्य 'सन्' इति व्यवहारस्याभाव एव भवेत् , न तु 'सोऽसन्' इति व्यवहारप्रवृत्तिः, व्यवहारे व्यवहर्तव्यज्ञानस्य कारणत्वेन भावस्यासद्रूपो यस्तदनन्तरोत्पन्नस्तदात्मकव्यवहर्तव्यज्ञानाभावादित्याह-कल्पादिव्यवहितस्यापीति । अतिरिक्तनाशानभ्युपगमे शत्रुनाशस्याभावे शत्रुनाशजन्यसुखानुभवस्य मित्रनाशजन्यदुःखानुभवस्य चाभावः प्रसज्यत इत्याह-न चेति-अस्य 'सङ्गच्छते' इत्यनेनान्वयः । ननु यो भवति स भाव इत्यभिधीयत इति ध्वंसो यदि भवेत् सोऽपि भावः स्यात्, नाभावः, भवितृत्वाविशेषे एकस्य भावत्वमन्यस्याभावत्वमिति विनिगन्तुमशक्यमित्याशङ्कय प्रतिक्षिपति-न चेति । नहि भवतीत्येव भावोऽस्माभिरभ्युपगम्यते, अनुत्पत्तिस्वभावानां नित्यानामपि भावत्वस्य स्वीकारात्, भवतीति भाव इति तु व्युत्पत्तिमात्रम्, न तु भावशब्दप्रवृत्तिनिमित्तमुत्पत्तिमत्त्वम्, किन्तु निषेधानात्मनापि प्रतीयमानत्वं भावत्वम् , निषेधात्मनैव प्रतीयमानत्वमभावत्वम् , एवं च भवितृत्वाविशेषेऽपि 'अयं घटः, अयं पटः' इत्येवं विलक्षणप्रत्ययविषयत्वेन यथा घटपटयोर्भेदस्तथैव विधिमुखप्रत्ययनिषेधमुखप्रत्ययात्मकविलक्षणप्रत्ययविषयत्वेन भावाऽभावयोरपि भेद इति निषेधहेतुमुपदर्शयति-भवितृत्वाविशेषेऽपीति । बौद्धः शङ्कते-अथेति । कपालोत्पत्तितस्तदनन्तरं घटो