________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १२३ परतोऽपि नाशाऽसम्भवात् कपालोत्पत्तिप्राक्क्षणपर्यन्तस्थायित्वस्वभावकल्पने तस्य नाशकसन्निधावप्यनुवृत्तेः कौटस्थ्यप्रसङ्गात् तद्धाधे क्षणिकत्वमेव युक्तमिति चेत् ? न-एकक्षणस्थायित्वखभावस्येवानेकक्षणस्थायित्वस्वभावस्यापि विवक्षितकालान्तरमनुवृत्त्य. विनश्यतीत्यतः कपालोत्पत्तिकाले न घटविनाश इति पराकूतमवलम्ब्योक्तम्-कपालोत्पत्तिकाले घटविनाशानभ्युपगम इति । यदि स्वभावतो विनश्वरो घट भवेत् कपालोत्पत्तिकालेऽपि नश्येत्, न च तदानीं नश्यतीत्यतः स्वभावतोऽविनश्वर एव इत्यभिप्रायेणोक्तम्खभावत एवाऽविनश्वरस्येति । यश्च स्वभावतोऽविनाशी न स कदापि नश्यतीति परतोऽपि नाशासम्भवात् कपालोत्पत्त्यनन्तरमपि नाशासम्भवात् । न स्वभावतोऽविनश्वरस्वभावो घटः किन्तु कपालोत्पत्तिप्राक्क्षणपर्यन्तस्थायित्वस्वभावः, अतो न पूर्व नश्यतीत्येवमभ्युपगमे त्वाह - कपालोत्पत्तीति-कपालोत्पत्त्यनन्तरं नश्यतीति कपालोत्पत्तिक्षणे विनश्यत्स्वभावोऽसौ, न तु स्थायिस्वभाव इत्यतः 'कपालोत्पत्तिपर्यन्त' इत्यनुक्त्वा 'कपालोत्पत्तिप्राक्क्षणपर्यन्त' इत्युक्तम्, अथवा कपालोत्पत्तिरूपो यो विनाशस्य प्राक्क्षणस्तत्पर्यन्तेत्यर्थः। तस्य कपालोत्पत्तिप्राक्क्षणपर्यन्तस्थायित्वस्वभावस्य, नाशकसन्निधावप्युनुवृत्तेः मुद्गरादिसन्निधानेऽपि भावान्नहि कस्यचित् स्वभावस्य परावृत्तिर्भवति, तथा च तादृशखभावानुवृत्तेर्न मुद्गरादिनाऽपि घटो नश्येदिति तस्य सर्वदास्थायित्वलक्षणकौटस्थ्यप्रसङ्गात् , तस्य कौटस्थ्यप्रसङ्गस्याऽनिष्टत्वेनाभ्युपगन्तुमशक्यत्वेन ततस्तद्बाधे कपालोत्पत्तिप्राक्क्षणपर्यन्तस्थायित्वस्वभावबाधे, स स्वभावबाधितत्वान्नास्त्येव घटस्येत्येवं व्यवस्थितौ सत्यां स्थायित्वस्वभावविरोधि क्षणिकत्वमेव युक्तमित्यर्थः । यथा च भवन्मते एकक्षणस्थायत्वस्वभावो भावो द्वितीयक्षणे नश्यति, एवमपि स स्वभावस्तस्य कालान्तरेऽप्यनुवर्तत एव, नहि रामो विनष्ट इत्ये