________________
१२४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् भ्युपगमे बाधकाऽभावात् , अन्यथैकैकक्षणस्थायित्वस्वभावानुवृच्यापि परस्य कल्पान्तरस्थायितापत्तेर्वज्रलेपत्वात् । विनाशहेतुपक्षनिक्षिप्तश्च विकल्पो भावोत्पत्तावपि समानः, तथा हि-उत्पत्तिहेतुः स्वभावत एवोत्पित्सुं भावमुत्पादयति, उताऽनुत्पित्सुम् ? प्रथमे विफलता तद्धेतोः, द्वितीये तु वियत्कुसुमादेरप्युत्पादनप्रसङ्गः।
तावता तस्य दशरथपुत्रत्वस्वभावानुवृत्तिः, तथा सति तत्पुत्रलव-कुशादौ दशरथपौत्रत्वस्वभावो न भवेत् , पुत्रस्य पुत्रः पौत्रो भवति; पुत्रत्वस्वभावापगमे तु दशरथपुत्रपुत्रत्वाभावाद् दशरथपौत्रत्वं न स्यात्, एवमन्यस्वभावेऽपीति यः स्वभावो यस्यास्ति स तस्य सर्वदाऽप्यनुवर्तत एव, नहि क्षणिको विनष्टो न क्षणिकस्वभाव इति, एवं कपालोत्पत्तिप्राक्क्षणपर्यन्तस्थायित्वस्वभावोऽपि कालान्तरेऽनुवर्तत एवेति समाधत्ते-नेति । अन्यथा स्वभाववतः सत्त्वे सत्येव स्वभावानुवृत्तिरिति विवक्षितकालादन्यकाले उक्तस्वभावानुवृत्तिस्तदैव भवेद् यदि भावस्तदाऽपि वर्ततेत्येवमभ्युपगमे । परस्य बौद्धस्य, मते इति शेषः । येन च विकल्पेन विनाशहेतुर्दूषितस्तादृशविकल्पेन भावोप्तत्तिहेतुरपि कवलित एव भवतीति यदि निर्हेतुको विनाशो भावोत्पत्तिरपि निर्हेतुका प्रसज्यत इत्याह-विनाशहेतुपक्षेति-विनाशस्य सद्धेतुकत्वपक्षे निक्षिप्तः स्थापितो विकल्पो भावोत्पत्तेः सहेतुकत्वपक्षेऽपि समान इत्यर्थः । भावोत्पत्तिहेतौ विकल्पं भावयति-तथाहीति । उताऽनुत्पित्सुमितिउत्पत्तिहेतुः स्वभावतोऽनुत्पित्सुं भावमुत्पादयतीति द्वितीयविकल्पार्थः । यदि भावः स्वत एवोत्पित्सुस्वभावस्तर्हि हेतुं विनापि यस्मिन् काले उत्पित्सुस्वभावता भावस्य तस्मिन् काले उत्पत्स्यत एवेति प्रथमविकल्प उत्पत्तिहेतोविफलतेत्याह-प्रथम इति। तद्धेतोः उत्पत्तिहेतोः । स्वभावतोऽनुत्पत्तिस्वभावोऽपि भावो यद्युत्पत्ति