________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १२५ खहेतुसन्निधेरेवोत्पित्सोरुत्पादनाभ्युपगमे विनाशहेतुसन्निधाने विनश्वरस्वभावं तद्धेतुर्विनाशयतीत्यपि तुल्यन्यायात् किं नाभ्युपगम्यते? स्वयमेव विनश्वरस्य विनाशिहेतुकृतोपकाराऽभावेन तजन्यनाशव्यपदेशाऽभावो हि स्वयमेवोत्पित्सोरुत्पत्तिहेतुकृतोपकाराऽभावेन तजन्योत्पत्तिव्यपदेशाऽभावतुल्ययोगक्षेमः । स्वकारणादुत्पत्तिरात्मलाभो यस्य स स्वोत्पत्तिधर्मा, तं यदि खहेतुर्नोत्पादयेत् तदा विरुद्धमभिधानं स्यादित्यपि विनाशकारणाद् विनाश आत्मप्रच्युतिहेतुत उत्पद्येत गगनकुसुमादेरप्युत्पत्तिः स्याद् , अतो द्वितीयविकल्पोऽपि न समीचीन इत्याह-द्वितीये विति । यदि च स्वभावत उत्पित्सुस्वभावस्यापि भावस्य स्वहेतुसन्निधित एवोत्पत्तिरित्यपेयते तर्हि स्वभावतो विनश्वरस्वभावस्यापि भावस्य विनाशहेतुसन्निधान एव विनाश इति तं विनाशहेतुर्विनाशयतीत्यपि तुल्ययुक्त्या किं न कल्प्यत इत्याह-स्वहेतुसन्निधेरेवेति । तद्धेतुः विनाशहेतुः, विनाशहेतुकृतोपकाराभावेन तजन्यनाशव्यपदेशो यदि स्वयमेव विनश्वरस्य नोपेयेत तथा सति तुल्ययुक्त्योत्पत्तिहेतुकृतोपकाराऽभावेन तजन्योत्पत्तिव्यपदेशोऽपि न स्यादेव स्वयमेवोत्पत्तिस्वभावस्य, तुल्ययोग-क्षेमत्वादित्याह – स्वयमेव विनश्वरस्यति । तजन्येतिविनाशहेतुजन्येत्यर्थः। तजन्येति-उत्पत्तिहेतुजन्येत्यर्थः। यथा स्वोत्पत्तिधर्मा स एव भवति यस्य स्वकारणादात्मलाभलक्षणोत्पत्तिर्भवति, स यदि स्वहेतुतो नोत्पद्येत स्वोत्पत्तिधर्मैव न स्यात्, तथा च खोत्पत्तिधर्माणं स्वहेतुर्नोत्पादयतीति विरुद्धमभिधानं परीक्षकैर्वक्तुमनर्ह तथा विनाशकारणादात्मप्रच्युतिलक्षणो विनाशो यस्य स विनाशधर्मोच्यते, ततो विनाशहेतुतो यदि विनाशो न भवेन्न भवेत् तदा भावो विनाशधर्मा, एवं च विनाशधर्मा भावः, तं विनाशहेतुर्न विनाशयतीत्यपि विरुद्धमभिधानं स्यादिति तुल्यमित्याह-स्वकारणादुत्पत्तिरिति । तं स्वोत्पत्तिधर्माणम् । तं विनाशधर्मा