________________
अनेकान्तव्यवस्थाप्रकरणम् । ऽभिप्रेतदेशप्राप्तिवदनभिप्रेतदेशप्राप्तिरपि तस्य भवेदित्यनुपलभ्यमानयुगपद्विरुद्धोभयदेशप्राप्तिप्रसक्तिरित्यत्राप्यनेकान्तो नाव्यापकः, अभिप्रेतगतिरेव तत्रानभिप्रेता गतिरिति चेत् ? न-अनभिप्रेतगत्यभावाभावे प्रतिनियतगतिभावस्यैवाभावात् , तत्सद्भावे च तदवस्थोऽनेकान्तः । ननु 'गतिमदेव' इत्येकान्तेन गतिसामान्यवति गतिसामान्याभावो गमनेनापीत्यर्थः । अप्राप्ततत्प्रदेशप्राप्त्यर्थमेव तत्तद्देशाभिमुखगमने भवतीत्यूर्ध्वदेशप्राप्त्यर्थं यद् गमनं तद् ययूर्ध्वदेशावच्छेदेन गमनरूपमिवान्यदेशावच्छेदेन गमनरूपमपि स्यात् तदोर्ध्वदेशप्राप्तिरिवान्यदेशप्राप्तिरपि तादृशगतिमतः पुंसो भवेत् , न च युगपद्विरुद्धोभयदेशप्राप्तिरुपलभ्यत इति तथापादनं नेष्टापत्तितया परिहतु शक्यमित्याह-तदेति । तस्य गतिमतो जीवस्य । ननु यैवाभिप्रेतगतिरूर्वदिग्गमनलक्षणा सैवानभिप्रेतागतिरन्यदिग्गमनाभावरूपेत्येकधर्मसमावेश एव नानेकधर्मसमावेश इति कुतोऽनेकान्तवादावकाशोऽत्रेति शङ्कते-अभिप्रेतगतिरेवेति-प्रतिनियतदिग्गतिरेवेत्यर्थः । समाधत्ते-नेति तत्सद्भावे च अनभिप्रेतगत्यभावसद्भावे च । नन्वविरुद्धधर्मद्वयसद्भाव एकत्रैकान्तवादिभिरप्युपेयते, नैतावताऽनेकान्तवादो व्यवतिष्ठते, किन्तु-एकान्तवादे अवधारणेन विरुद्धस्यैव प्रतिक्षेपः क्रियते, अनेकान्तवादेन तु विरुद्धस्य सद्भाव उपदर्यत इत्यनयोलक्षण्यम् , प्रकृते तु एकान्तवादीष्टेन गतिमदेवेत्यवधारणेन गतिसामान्यवति गतिसामान्याभावो निषिध्यते, गतिसामान्यस्य गतिसामान्याभावेन सहैव विरोधात् न तु गतिविशेषाभावः, सामान्यवति विशेषाभावस्याभ्युपगमेन सामान्य-विशेषाभावयोरविरोधात् , अनेकान्तवादिना तु गतिसामान्यवति गतिविशेषाभाव एवोपदर्यत इत्युपदिष्टेन विशेषाभावेनावधारणलभ्यस्य सामान्याभावप्रतिक्षेपस्य नापोहनम् , नहि सामान्याभावविशेषाभावयोरैक्यं येन विशेषाभावे उपदिष्टे सामान्याभावोऽप्युपदिष्टः स्यात्, ततश्च सामान्याभावप्रतिक्षेपस्याप्यपोहो भवेदित्यनेकान्तवादप्रवेशो भवेदित्याशङ्कतेननु गतिमदेवेत्येकान्तेनेति । स च गतिसामान्याभावनिषेधश्च । कुतो गतिविशेषाभावेन गतिसामान्याभावप्रतिक्षेपो नापोद्यत इत्यपेक्षायामाह-नहीति । उक्ताशङ्का प्रतिक्षिपति-नेति । गतिविशेषाभावस्यापि कथञ्चिद्गतिसामान्याभावरूपतया गतिसामान्यवति गतिविशेषाभावो गतिसामान्याभाव इति भावाभावोभयसमावेशनिबन्धनानेकान्तसाम्राज्यमत्रापीत्याह-गतिसामान्यवत्यापीति । विशेषाभाव