________________
तत्त्वबोधिनीविवृतिविभूषितम् ३३१ निषिध्यते, स च गतिविशेषाभावेन नापोद्यते, नहि विशेषाभाव एव सामान्याभाव इति कोऽयमनेकान्त इति चेत् ? न-गतिसामान्यवत्यपि गतिविशेषाभावेन भावाभावोभयरूपतासमावेशादेवानेकान्तसाम्राज्याद् न च विशेषाभावेभ्यः सामान्याभावोऽपि सर्वथातिरिक्तः, किन्तु यावद्विशेषाभावाधिकरणावच्छेदेनातिरिक्तो यत्किञ्चिद्विशेषाभावाधिकरणावच्छेदेन चानतिरिक्त इति गतिसामान्यवति विशेषरूपेण तत्सा
सामान्याभावयोः सर्वथा भेदे नोक्तोपपत्तिरतः सामान्याभावस्य सर्वथा विशेषभाव. व्यतिरिक्तत्वं प्रतिक्षिपति-न चेति । तत् किं तयोः सर्वथाऽभेद एवान्यो वाऽत्र कश्चित् प्रकार इति पृच्छति-किन्त्विति। उत्तरयति-यावदिति-यत्राकाशादौ कोऽपि गतिविशेषो न वर्तते, स आकाशादिर्यावद्गतिविशेषाभावाधिकरणम् , तदवच्छेदेन गतिसामान्याभावो गतिविशेषाभावाद् भिन्नः गतिमत्यपि जीवे तिर्यग्गत्यादिविशेषाभावोऽस्तीति यत्किञ्चिद्गतिविशेषाभावाधिकरणं जीवस्तदवच्छेदेन गतिसामान्याभावो गतिविशेषाभावादनतिरिक्त इत्यर्थः। ननु गतिमति गतिविशेषाभावो गतिसामान्याभावस्तु न विद्यत इति कथं गतिसामान्याभावस्य गतिविशेषाभावरूपत्वमत आह-गतिसामान्यवतीति । तत्सामान्याभावोऽपीति गतिसामान्याभावोऽपि, यथा वह्निसामान्यवत्यपि पर्वते महानसीयवह्नित्वेन वह्निर्नास्तीति प्रतीतिबलाद् महानसीयवह्नित्वावच्छिन्नवह्निसामान्यनिष्ठ प्रतियोगिताकाभावोऽभ्युपेयते तथैवोर्ध्वगतिमादाय गतिसामान्यवति जीवे अधोगतित्वादिना गतिर्नास्तीति प्रतीतिबलादधोगतित्वाद्यवच्छिन्नगतिसामान्यनिष्ठप्रतियोगिताकाभावो. ऽभ्युपगन्तव्यः, तथा च गतिविशेषाभावाद् गतिसामान्याभावोऽतिरिच्यतां नाम तथापि विशेषरूपेण गतिसामान्याभावमेवोपादाय भावाभावोभयरूपसमावेशनिबन्धनानेकान्तता स्यादेवेत्याशयः । ननु गतिमदेवेत्येकान्तावधारणेन गतिमति गतित्वा. वच्छिन्नप्रतियोगिताकाभाव एव निषिध्यते, तादृशनिषेधश्च विशेषधर्मावच्छिन्नप्रतियोगिताकाभावेन नापोद्यत इति नैकान्तव्याघात इत्याशङ्कते-गतिमतीति-यथा च प्रतीतिबलात् सामान्यनिष्ठप्रतियोगिताया विशेषधर्मोऽवच्छेदकः, तथा तत एव विशेषनिष्ठप्रतियोगितायाः सामान्यधर्मोऽप्यवच्छेदक इति सामान्यधर्मावच्छिन्नविशेषनिष्ठप्रतियोगिताकाभाव उक्तनिषेधापनोदको भवतीत्येवमेकान्तव्याघातः स्यादेवेति