________________
अनेकान्तव्यवस्थाप्रकरणम् ।
मान्याभावोऽपि न दुर्लभः । गतिमति गतित्वावच्छिन्नप्रतियोगिताकाभावनिषेधान्नैकान्तव्याघात इति चेत् ? न - सामान्यरूपेण विशेषाभावमादायेत्थमपि वक्तुमशक्यत्वात्, गतित्वावच्छिन्नगतिसामान्यनिष्ठप्रतियोगिताकाभावेन सह गतिसामान्यविरोधैकान्त एवेति चेत् ? न - सामान्यावच्छिन्नप्रतियोगिताकत्वस्याधिकरणविशेषावच्छेदेनैव सम्भवात्, तत्तदधिकरणान्तर्भावेन विरोधा - विरोधयोरप्यनेकान्तस्यैव
३३२
समाधत्ते-नेति । इत्थमपि अवधारणस्य गतित्वावच्छिन्न प्रतियोगिताकाभावनिषेधपरत्वाश्रयणेनैकान्तव्याघातस्यापि । ननु गतित्वावच्छिन्नगतिसामान्यनिष्ठप्रतियोगिताकाभावो गतिसामान्यस्य विरोधीति स एव गतिमदेवेत्यवधारणेन निषिध्यते, तादृशनिषेधस्यापनोदको न भवदभिमतो गतिसामान्यवति गतित्वावच्छिन्नगतिविशेषनिष्ठप्रतियोगिताकाभाव इति नैकान्तव्याघात इत्याशङ्कते - गतित्वावच्छिन्नेति । एकस्यैवाभावस्य यदधिकरणे कोऽपि गतिविशेषो नास्ति तदधिकरणावच्छेदेन गतित्वावच्छिन्न प्रतियोगिताकत्वम्, यदधिकरणे कश्चिद् गतिविशेषो नास्ति कश्चिच्च गतिविशेषो वर्तते तदधिकरणावच्छेदेन न गतित्वावच्छिन्नप्रतियोगिताकत्वं किन्तु यस्मिन् यस्मि - न्नधिकरणे यस्य यस्य विशेषस्य न सम्भवस्तत्तदधिकरणावच्छेदेन तत्तद्विशेषासाधारणधर्मावच्छिन्नप्रतियोगिताकत्वमित्येवमुपगमेन यदधिकरणावच्छेदेन न कोऽपि गति - विशेषस्तदधिकरणावच्छेदेन निरुक्ताभावस्य गतिसामान्येन विरोधः, यदधिकरणावच्छेदेन कोऽपि गतिविशेषः समस्ति तदधिकरणावच्छेदेन निरुक्ताभावस्य न गतिसामान्येन विरोध इत्येवं विरोधाऽविरोधयोरप्यनेकान्त एवेति समाधत्ते - नेति । उक्तदिशा नैकस्मिन्नभावे सामान्यावच्छिन्न प्रतियोगिताकत्वमधिकरणविशेषावच्छेदेन, विशेषधर्मावच्छिन्नप्रतियोगिताकत्वं चाधिकरण विशेषावच्छेदेन, किन्तु यत्र विशेषधर्मावच्छिन्नप्रतियोगिताकत्वं न तत्र सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वमिति स्वरूपत एव विशेषधर्मावच्छिन्नप्रतियोगिताकाभावात्, सामान्यधर्मावच्छिन्नप्रतियोगिताकाभावो - ऽतिरिक्तः, अन्यथा जगति एक एवाभावः स्यात्, तस्यैव तत्तदधिकरणविशेषावच्छेदेन तत्तद्धर्मावच्छिन्नप्रतियोगिताकत्वस्य सम्भवादिति विभाव्यते तदा प्रतीतिबलाद् यथा सामान्यावच्छिन्न प्रतियोगिताकोऽभावोऽतिरिक्तस्तथा सामान्यावच्छिन्नाधिकरणताक्रोऽप्यभावोऽतिरिक्तोऽभ्युपगन्तव्यः स्यात् न च तथाऽभ्युपगम्यते, इत्यनेकान्त