________________
तत्त्वबोधिनीविवृतिविभूषितम् ३३३ साम्राज्यात् । यदि च सामान्यावच्छिन्नप्रतियोगिताकोऽभावोऽतिरिक्त एव तदा द्रव्यविशेष रूपं न तु द्रव्यसामान्य इति प्रतीत्या सामान्यावच्छिन्नाधिकरणताकोऽप्यभावोऽतिरिक्तोऽभ्युपगन्तव्यः, तस्मादभावस्य सामान्याधिकरणकत्वस्य सामान्यप्रतियोगिकत्वस्य स्वतः सामान्यविशेषभावस्य चानेकान्तकोडीकृतत्वाद् भावा-ऽभावयोर्विरोधाऽविरोधावपि तादृशावेवेत्यभिप्रायात् । एतेन. 'भावा-ऽभावसामान्ययोरेव विरोधकल्पनाद् भेदा-ऽभेदाद्यनेकान्तसमावेशोऽप्रामाणिकः' एव तत्रापि प्रविशति, अन्यथा तथाप्रतीत्युपपादनमशक्यम् , एवमेव भावाऽभावयोविरोधा-ऽविरोधावप्यनेकान्तावेव स्वीकरणीयावित्याह-यदि चेति । उपसंहरतितस्मादिति । 'अभावस्य' इत्यस्य ‘सामान्याधिकरणकत्वस्य'इत्यादिषठ्यन्तत्रयेऽन्वयः, तस्य च 'प्रत्येकमनेकान्तकोडीकृतत्वाद्' इत्यनेनान्वयः, रूपाभावस्य द्रव्यसामान्यावच्छेदेन सामान्याधिकरणकत्वं द्रव्यविशेषावच्छेदेन सामान्याधिकरणकत्वाभाव इत्येवं सामान्याधिकरणकत्वस्यानेकान्तकोडीकृतत्वम् , तस्यैव रूपाभावस्य यावद्रूपविशेषाभावाधिकरणाकाशाद्यवच्छेदेन रूपसामान्यप्रतियोगिकत्वं यत्किञ्चिद्रूपविशेषाभावाधिकरणपृथिव्याद्यवच्छेदेन रूपसामान्यप्रतियोगिकत्वाभाव इत्येवं सामान्यप्रतियोगिकत्वस्यानेकान्तकोडीकृतत्वम् , तस्यैव रूपाभावस्य स्वतः स्वरूपतः सामान्यविशेषभावस्य स्वगतानेकविशेषानुगामित्वात् सामान्यरूपत्वमन्यतो व्यावृत्तत्वाद् विशेषस्वभावत्वम् , तथा खस्वरूपापेक्षयैव सामान्य-विशेषभावत्वं नान्यापेक्षयेत्येवं तस्यानेकान्तकोडीकृतत्वमिति बोध्यम् । तादृशावेव अनेकान्तकोडीकृतावेव, विभिन्नाधिकरणावच्छेदेन सामानाधिकरण्याभावलक्षणो विरोधः, एकाधिकरणावच्छेदेन सामानाधिकरण्यलक्षणोऽविरोधः, यदवच्छेदेन यद्रूपेण वा विरोधस्तदन्यावच्छेदेन तदन्यरूपेण वाऽविरोधः, एवं यदवच्छेदेन यद्रूपेण वाऽविरोधस्तदन्यावच्छेदेन तदन्यरूपेण वा विरोध इत्येवं विरोधा-ऽविरोधयोरप्यनेकान्तत्वमिति । 'एतेन' इत्यस्य 'अपास्तम्' इत्यनेनान्वयः । भावाभावसामान्ययोरेव विरोधकल्पनात् यः कश्चिद् भावस्तस्य सर्वस्य स्वखभावेन सह विरोधः, यः कश्चिदभावस्तस्य सर्वस्य खस्वप्रतियोगिना समं विरोध इत्येवं कल्पनात् । भेदाऽमेदादीनामपि भावा-ऽभाव सामान्यान्तर्गतत्वात् तेषामपि विरोधस्यैव सद्भावान्नैकाधिकरणस्वभावातलक्षणानेका