________________
३३४
अनेकान्तव्यवस्थाप्रकरणम् । इत्यपास्तम् , विरोधस्यापि विशेषविश्रान्तत्वेन यथानुभवं गुण-गुण्यादिभेदा-ऽभेदाद्यविरोधकल्पन एव लाघवादित्यधिक मत्कृतनयरहस्ये । स्यादेतद्-'दहनाद् दहनः, पचनात् पचनः' इत्यत्राप्यनेकान्ते दहनादावदहनादिविरुद्धरूपस्य सम्भवात् स्वरूपाभावप्रसङ्गः, तत्राह. "गुणनिवत्तियसण्णा, एवं दहणादओ वि दट्ठवा । .. जंतु जहापडिसिद्धं, दत्वमदत्वं तहा होइ ॥”
[सम्मतिकाण्ड० ३, गाथा ३०] गुणेन दहनादिना निर्वर्तिता उत्पादिता संज्ञा येषां तेऽपि दहनपचनादयः, एवमेवानेकान्तात्मका द्रष्टव्याः, तथाहि-दाहपरिणामयोग्यं न्तसमावेशः प्रामाणिक इत्याह-भेदाभेदादीति-आदिपदान्नित्यानित्यादीनामुपग्रहः । 'एतेन' इत्यतिदिष्टमेवापासनहेतुमुपदर्शयति-विरोधस्यापि विशेषविश्रान्तत्वेनेति-यदि भावसामान्या-ऽभावसामान्ययोरविशेषेण विरोधस्तदा भावसामान्यान्तर्गताघटधिकरणेऽभावसामान्यान्तर्गतपटाभावादिरपि न स्यात् , एवं पटाभावाद्यधिकरणे घटादिरपि न वर्तेत, यत्त्व-तत्त्वादिकं चाननुगतमेव ततो घटाभावस्य स्वप्रतियोगिना घटेन सह विरोधः, घटस्य स्वप्रतियोगिकाभावात्मकेन घटाभावेन सह विरोध इत्येवं विरोधस्य विशेषविश्रान्तत्वेनेत्यर्थः । यथानुभवमिति-अनुभवमनतिकम्येत्यर्थः, ययोर्विरोधोऽनुभूयते तयोर्विरोधः कल्प्यते, ययोः स नानुभूयते तयोर्भावा-ऽभावयोरपि विरोधो न कल्प्यते इति यावत् , गुण-गुण्यादिभेदाभेदादेश्च विरोधो नानुभूयतेऽतो न तस्य विरोधः कल्प्यते, प्रत्युत विरोधस्यैकाधिकरणावृत्तित्वस्य गुरुभूतस्य कल्पनापेक्षयाऽविरोधस्यैकाधिकरणवृत्तित्वस्य लघुभूतस्य कल्पनमेव लाघवाद् युक्तमित्याह-गुण-गुण्यादीति । एतद्विशेषजिज्ञासुभिरस्मत्कृतनयरहस्यमवलोकनीयम् , इह ग्रन्थगौरवभयादेतावन्मात्रमत्रोपदिष्टमित्याशयेनाहअधिकं मत्कृतनयरहस्य इति । दहनपचनादावप्यनेकान्तत्वोपपादिकां गाथा परशङ्कासमाधानपरतयाऽवतार्य दर्शयति-स्यादेतदिति । दहनात् दाहजनकत्वात् । पचनात् पाकजनकत्वात् । गुण० इति-"गुणनिर्वर्तितसंज्ञा एवं दहनादयोऽपि द्रष्टव्याः। यत् तु यथा प्रतिषिद्धं द्रव्यमद्रव्यं तथा भवति ॥” इति संस्कृतम् ।