________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[६७ इत्युल्लेखे च दर्शनस्यैव हेतुत्वात् । न च तत्तैवेदन्ता, संस्कारजन्यतज्ज्ञाने 'स: इत्यभिलापः, प्रात्यक्षिकतज्ज्ञाने च 'अयम्' इति, उभयहेतुसमाजात् 'सोऽयम्' इति प्रत्यभिज्ञाकारोपपत्तिरिति भवानन्दादिकृतसमाधानमपि युक्तम्, 'सोऽयम्' इत्याकारयोः परस्परानुप्रवेशप्रसङ्गात् , तथा च कदाचित् 'सः' इत्येवोल्लिख्येत, कदाचिच्च ‘अयम्' इत्येव, न तु 'सोऽयम्' इति नियतोल्लेखः स्यात् , प्रत्यभिज्ञाया उभयाकारावगाहित्वनिय
स्तत्तदन्तयोरेकत्वेऽपीति भवानन्दादिकृतसमाधानमाशङ्कय प्रतिक्षिपति-न चेति-अस्य युक्तम्' इत्यनेनान्वयः । यदि च तत्तैवेदन्ता तदा तत्ताया इवेदन्ताया अपि 'सः' इत्याकारः, एवमिदन्ताया इव तत्ताया अपि 'अयम्' इत्याकार इति तयोराकारयोरुल्लिख्यमानैकोल्लेखत्वेन परस्परानुप्रवेशप्रसङ्गतः कदाचित् 'सः' इत्युल्लेखमात्रत एव तत्ताया इदन्तायाश्चावगतिः, कदाचिद् 'अयम्' इत्युल्लेखत एव तयोरवगतिरिति । 'सोऽयम्' इत्यनयोरन्यतरत एवोल्लिख्यमानतयाऽभिमतयोस्तत्त्वेदन्त्वयोरवगतिसम्भवे यत् तत्तायाः प्रतिपत्तये 'सः' इति, इदन्तायाः प्रतिपत्तये 'अयम्' इति कृत्वा प्रत्यभिज्ञायां 'सोऽयम्' इति नियतोल्लेखः स न स्यादित्याह–सोऽयमित्याकारयोरिति । यद्यपि तत्तैवेदन्ता तथापि प्रत्यभिज्ञाया उभयाकारावगाहित्वनियमतस्तत्र 'सोऽयम' इत्यभयाकारोल्लेखनियम इत्याशङ्कते-प्रत्यभिज्ञाया इति । तत्तेदन्तयोरेकत्वे 'सः' इत्यनेन यो विषय उल्लिख्यते तदन्यविषयकत्वं नास्ति 'अयम्' इत्युल्लेखस्य, एवम् 'अयम्' इत्यनेन यो विषय उल्लिख्यते तदन्यविषयकत्वं नास्ति 'सः' इत्युल्लेखस्य, अथापि विषयविशेषं विना 'सोऽयम्' इत्याकारद्वयशालिनी धीस्तथाव्यवहारश्चेति ज्ञान-व्यवहारविशेषस्याऽऽकारविशेषत एव