________________
२६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
,
त्यविशेषादिति सर्वोपसंहारेण व्याप्तिमवगत्य यत्र यत्र सत्त्वं निश्चीयते तत्र तत्र क्षणिकत्वानुमानं प्रवर्तयन्ति विद्वांसः, हेतु-साध्ययोस्तादात्म्यप्रतिबन्धनिश्चयादिति स्थितम् न च सच्चे सत्यप्यक्षणिकत्वस्यैव साम्राज्यात ( ज्यम् ), अथ प्रथमक्षणे जन्मैव न स्थितिः, द्वितीये स्थितिरेव न जन्म, एवमपि क्षणिकत्वं प्रसक्तं जन्मजन्मिनोः स्थिति-स्थितिमतोश्चाऽभेदाद्" इति ।
परे तु - "सच्चलक्षणस्य हेतोस्तादात्म्यरूपः प्रतिबन्धो विपर्यये बाधकप्रमाणनिबन्धनः" इत्येवं वर्णयन्ति यत्र क्रम-यौगपद्या
तमर्थक्रियाकारित्वरूपं सत्त्वं सिद्ध्यति । अविशेषात् सामर्थ्यभेदेन भेदस्य दृष्टाऽदृष्टोभयधारणत्वात् । यत उक्तदिशा क्षणिकत्वेनैव व्याप्तमर्थक्रियाकारित्वलक्षणं सत्त्वं ततस्तस्मिन् सत्त्वे सत्यप्यक्षणिकत्वस्यैवावस्थानमित्युपगमो न सम्भवतीत्याह-न चेति - अस्य 'साम्राज्यम्' इत्यनेनान्वयः । प्रथमक्षणे वस्तुनो जन्म, द्वितीयक्षणे वस्तुनः स्थितिरिति पराभ्युपगमेऽपि क्षणिकत्वं वस्तुन आयात्येव, यतो जन्म-जन्मवतोः स्थिति-स्थितिमतोश्चाऽभेदेन जन्मनो जन्मकालं परित्यज्याभावे तद्वतोऽपि तत्कालं परित्यज्य भावाऽसम्भवात् स्थितेश्च स्थितिकालं परित्यज्याऽभावे स्थितिमतोऽपि तदन्यकालेऽसम्भवादित्याह - अथेति ।
विपर्यये बाधकप्रमाणबलात् सत्त्व-क्षणिकत्त्वयोस्तादात्म्यलक्षणाविनाभावग्रह इति वादिनां बौद्धविशेषाणां मतमुपदर्शयतिपरे त्विति - अस्य 'वर्णयन्ति' इत्यनेनान्वयः । क्षणिकत्वलक्षणसाध्यस्याऽभाववति सत्त्वव्यापक क्रमयौगपद्याभावग्रहणमेव विपर्यये सत्त्वलक्षण हेत्वभावग्राहकं प्रमाणम्, ततः क्षणिकत्वनियतं सत्त्वं भवतीत्येवं विपक्षवाधकप्रमाणतः प्रकृते साध्यहेत्वोरविनाभावग्रह इत्याहयत्रेति । 'व्यावर्तमानस्य क्षणिकत्वस्य' इति स्थाने 'व्यावर्तमानस्य