SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अनेकान्तव्यवस्थाप्रकरणम् ] [ २७ योगो न तत्रार्थक्रियासामर्थ्यलक्षणं सत्त्वमित्यक्षणिकाद् व्यावर्त - मानस्य क्षणिकत्वस्य क्षणिकेष्वेवावस्थानात् । अथ कथमर्थक्रियासामर्थ्यनिवृत्तिः क्रम-यौगपद्यनिवृत्तिनिमित्तेति चेत् ? तयोस्तद्व्यापकत्वात् । अथात्राऽपि यदि व्याप्यव्यापकभावो बाधकान्तरनिबन्धनस्तदा तत्रापि बाधकान्तरान्वेषणायामनवस्थेति चेत १ नक्रम - यौगपद्याभ्यां सामर्थ्यस्य व्याप्तेः प्रकारान्तरासम्भवतो निश्व सत्त्वस्य' इति पाठो युक्तः, विपक्षे क्रम-यौगपद्यनिवृत्त्याऽर्थक्रियाकारित्वलक्षणस्य सत्त्वस्य कथं निवृत्तिः ? नहि क्रम-यौगपद्ययोः सत्त्वेन सहाऽविनाभाव निबन्धनं किमपि पश्यामो येन क्रम-योगपद्यनिवृत्त्या सरवनिवृत्तिमवगच्छाम इति परः पृच्छति - अथेति । बौद्ध उत्तरयति - तयोरिति-क्रम - यौगपद्ययोरित्यर्थः । तद्व्यापकत्वात् अर्थक्रियासामर्थ्यलक्षणसत्त्वव्यापकत्वात्, तथा च व्यापकाभावस्य व्याप्याभावनियतत्वं सुप्रसिद्धमिति भवति क्रम-यौगपद्यनिवृत्तितः सत्त्वनिवृत्तिरित्याशयः । यथा च सत्त्व-क्षणिकत्वयोरविनाभावग्रहो विपर्ययबाधकप्रमाणतस्तथा सत्त्वस्य क्रम- यौगपद्याभ्यां सह व्याप्यव्यापकभावग्रहोऽपि विपर्ययबाधकप्रमाणत इत्येवमनवस्था स्यादित्याशङ्कते - अथेति । अत्राऽपि सत्त्व क्षणिकत्वाविनाभावग्राहकविपर्ययबाधकेऽपि । तत्रापि व्याप्यव्यापकभावग्राहकबाधकान्तरेऽपि । यः करोति स क्रमेण करोति युगपद् वा करोति, कार्यकरणे क्रमयौगपद्याभ्यामन्यः प्रकारो न भवत्येवेति प्रकारान्तरासम्भवत एवार्थक्रियासामर्थ्यलक्षणस्य सत्त्वस्य क्रम- यौगपद्याभ्यां सह व्याप्तेर्निश्चयस्य सम्भवान्न तत्र व्याप्यव्यापकभावग्रहार्थ विपर्यये बाधकान्तरमन्वेपणीयमिति नाऽनवस्थेति समाधत्ते - नेति । प्रकारान्तरासम्भवोऽपि यद्यनुमानान्तरात् तदा तदुत्पत्तिनिबन्धनव्याप्तिग्रहार्थं प्रमाणान्तरमन्वेषणीयमित्यनवस्यैवमपि स्यात्, न चैवम्, प्रत्यक्षेणैव प्रकारान्तरासम्भवस्य निश्चयादित्याह - प्रकारान्तरासम्भवश्चेति । प्रत्यक्षेण
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy