________________
२८]
[ तत्त्वबोधिनीविवृतिविभूषितम् येनानवस्थाभावात् , प्रकारान्तरासम्भवश्च प्रत्यक्षेणैव निश्चीयते, क्रमेण योगपद्येन वा घटादीनां स्वकार्यमुत्पादयतामध्यक्षेणाऽवलम्बने इतररूपविवेकभानात् तदनन्तरं क्रमभावि तत्कार्य नाक्रमभावीति विकल्पद्वयप्रवृत्तिः, नीलाद्यनुभवोत्तरमनीलादिव्यवच्छेदविकल्पोदयात् तस्याऽनीलादिव्यवच्छेदावगाहित्ववत क्रमप्रतीतावक्रमव्यवच्छेदविकल्पोदयात् तस्याक्रमव्यवच्छेदावगाहित्वस्य न्यायप्राप्तत्वात् । अथ कथं क्रम-योगपद्यायोगोऽक्षणिकेषु भावेषु ? उच्यते-न तावदक्षणिकाः क्रमेणार्थक्रियाकारिणः, कारकस्वभावस्य प्रागेव सन्निधानात् प्रथमक्षण एव द्वितीयादिक्षणभाविसकलकार्य
प्रकारान्तरासम्भवनिर्णयमेव व्यवस्थापयति-क्रमेणेति-क्रमेण स्वकाोत्पादकतया घटादीनां प्रत्यक्षेण ग्रहणे योगपद्येन कार्यकारिरूपस्य विवेकस्तत्र भासते, अक्रमेण च स्वकार्योत्पादकतया च घटादीनां प्रत्यक्षेण ग्रहणे तु तत्र क्रमेण कार्यकारिरूपस्य विवेको भासत इति क्रमेण कार्यकारिघटादिस्वरूपग्राहिप्रत्यक्षे सति तदनन्तरं क्रमभावि घटादिकार्यमिति नाऽक्रमभावि घटादिकार्यमिति विकल्पद्वयप्रवृत्तिर्भवतीत्यतः प्रकारान्तरासम्भवः प्रत्यक्षणैवेति मुकुलितोऽर्थः । क्रमकारिस्वरूपप्रत्यक्षेऽक्रमकारिस्वरूपन्यच्छेदविकल्पोदयः, तत्राऽक्रमकारिस्वरूपव्यवच्छेदावगाहित्वमिति दृष्टान्तावष्टम्भेन व्यवस्थापयति-नीलाद्यनुभवोत्तरमिति । तस्य अनीलादिव्यवच्छेदविकल्पस्य । तस्य अक्रमव्यवच्छेदविकल्पस्य । नित्ये क्षणिकत्वाभाववत्त्वेन विपर्ययस्वरूपे क्रम-योगपद्याभ्यामर्थक्रियाकारित्वाभावः कथं ? येन ततस्तत्र सत्त्वनिवृत्तिसिद्धिरिति शङ्कते-अथेति । 'कथम्' इत्यत्र किम आक्षेपार्थकत्वेन न कथश्चिदित्यर्थः। समाधत्तेउच्यत इति । कारकस्वभावस्य अर्थक्रियाकारित्वस्य । प्रागेव प्रथमक्षण