________________
[२९
अनेकान्तव्यवस्थाप्रकरणम् ] करणप्रसक्तेः, न च सहकारिक्रमात् कार्यक्रम इति वक्तव्यम् , यतः सहकारिणः किं विशेषाऽऽधायकत्वेन तथा व्यपदिश्यन्ते ? आहोविदेकार्थप्रतिनियताश्चक्षुरादय इवाऽक्षेपकारिणः स्वविज्ञानेन ?, नाद्यः-तजनितविशेषस्यार्थान्तरत्वात् तेनाकारकस्वभावाप्रच्यावनात्, नाऽपि द्वितीयः-नित्यानामेककार्यप्रतिनियमलक्षणसहकारित्व
एव । ननु अर्थक्रियाकारिस्वभावस्य कारणस्य पूर्व भावेऽपि सहकारिसमवधाने सत्येवोक्तस्वभावबलात् कार्य करोतीति यदा सहकारिसमवधानं तदैव कार्य करोति नान्यदेति द्वितीयादिक्षणभाविकार्य प्रत्यपेक्षणीयस्य सहकारिणो न पूर्व समवधानं किन्तु द्वितीयादिक्षण एवेति तदैव कार्य न प्रथमक्षण इति सहकारिक्रमात् कार्यक्रमो भविष्यतीत्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'वक्तव्यम्' इत्यनेन सम्बन्धः । निषेधे हेतुमाह-यत इति । ये यस्य सहकारिणस्ते तत्र कश्चिद् विशेषमादधतीत्यतः सहकारीति व्यपदिश्यन्ते, अथवा चक्षुरादयो यथा स्वविज्ञानेन सहैकार्थनियता अक्षेपकारिणस्तथा सहकारिणोऽपि विवक्षित कारणेन सहैककार्यनियता अक्षेपकारिण इति विकल्पद्वयं प्रतिक्षेतुमुपदर्शयति-सहकारिणः किमिति । तत्र प्रथमविकल्पं प्रतिक्षिपति-नाद्य इति । तजनितेति-सहकारिजनितविशेषस्य स्वाधारभूतविवक्षितकारणतो भिन्नत्वेन तदुत्पादेऽपि विवक्षितकारणस्य यः पूर्वकालीनोऽकारकस्वभावो यदुपष्टम्भात् पूर्व कार्य नाऽकरोत् तस्य स्वभावस्याऽविनाशेन द्वितीयक्षणे तादृशविशेषभावेऽपि कार्य न कुर्यादेवेत्यर्थः । द्वितीयविकल्पं प्रतिक्षिपति-नाऽपि द्वितीय इति । नित्यानामिति-नित्यानां सहकारिणां नित्यस्य विवक्षितकारणस्य विवक्षितैककार्योत्पत्तिकाले विवक्षितैककार्योत्पत्तिकालात् प्राकाले पश्चात्काले च तेषां पृथद्गशगमनसम्भवतोऽन्योऽन्यं पृथग्भावस्य सम्भवेन सहैव कुर्वन्तीति