________________
३० ]
[ तत्त्वबोधिनी विवृतिविभूषितम् सम्भवेऽपि प्राक् पश्चात् पृथग्भावसम्भवात् सहैव कुर्वन्तीति सहकारित्वनियमस्यानुक्तिसम्भवात्, साहित्येऽपि प्राक्तनाकारकस्वभावानिवृत्तेः, प्रागेव कारकस्वभावत्वे च न कदाचित् तत्क्रियाविरतिरिति कुत एकार्थक्रियाप्रतिनियमखरूपमक्षणिकानां सहकारित्वम् ? कार्यस्य सामग्रीजन्यतया तस्याश्चापरा परप्रत्यययोगरूपतया प्रत्येकं तत्क्रियास्वभावत्वेऽप्यनुत्पत्तिरिति चेत् ? व्याहत
सहकारिण इत्येवं यः सहकारित्वनियमस्तस्यानुक्तिसम्भवात्, सर्वेषामेकदैकत्र समवधानसम्भवेऽपि प्राक् प्रत्येकं यः कार्याऽकरणतोऽकारित्वस्वभावस्तस्य परस्परसमवधाने सत्यप्यनिवृत्तेः, तत्स्वभावनिवृत्तौ तु नित्यत्वमेव न स्यात्, स्वभाव-स्वभाववतोरभेदेन स्वभावनिवृत्तौ स्वभाववतोऽपि निवृत्त्यापत्तेः, यदि च सहकारिसमवधानात् प्रागपि कारकस्वभावत्वमेव तर्हि कारकस्वभावत्वे सर्वदा विद्यमाने सर्वदैव तत्कार्यक्रिया भवेदिति न कदाचित् तत्क्रियाविर तिरित्येकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं कुतो नित्यानां स्यात् ? तत् तु तदैवोपपद्यते सहकारिणां समवधाने सति विवक्षितमेकं कार्यं भवति तेषामसमवधाने सति तन्न भवतीति, कार्यस्य सर्वदा भवने तु नैवमिति समुदितार्थः । यद्यपि नित्यानां कारणानां प्रत्येकं तत्क्रियाकारित्वं स्वभावस्तथापि कार्यस्य सामग्रीजन्यत्वेन सामग्र्याश्चाऽपरापरकारणमेलकरूपत्वेन तद्भाव एव कार्यमित्यन्यासमवहितैकैककारणस्य सद्भावेऽपि तत्कार्यानुत्पत्तिरिति शङ्कते - कार्यस्य सामग्रीजन्यतयेति । सामग्रीत एव कार्यजनने सामय्या एव कार्यजनकत्वस्वभावो भवेत्, असमुदिताच्चैकैकस्मात् कार्यस्याऽनुत्पत्त्या केवलस्य कार्यजनकत्वस्वभावो न भवेदेवेति 'प्रत्येकं कार्यजनकत्वस्वभावत्वे न भवति च ततः कार्यम्' इति तु व्याहतमेवेति समाधत्ते - व्याहतमेतदिति । तज्जननेति कार्यजननेत्यर्थः ।