________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[३१ मेतत्-समुदितस्य कार्यजननस्वभावत्वे केवलस्य तज्जननस्वभावत्वासिद्धेः । किञ्च, प्रत्येकातिरिक्तसमुदाये प्रमाणाभावात् प्रत्येकमनुत्पादकत्वे समुदायस्याप्यनुत्पादकत्वम् । अथ प्रत्येकं कारणानां खरूपयोग्यतैव, फलोपहितकारणतायां त्वेकैकस्य कारणस्येतरकारणसाहित्यमप्यवच्छेदकमिति न दोष इति चेत् ? इतरकारण
यदि च प्रत्येकं न कार्यमुत्पादयति तर्हि समुदायोऽपि नोत्पादयेदेव, तस्य प्रत्येकाऽभिन्नत्वादित्याह-किच्चेति-प्रत्येकातिरिक्तः समुदायो यदि भवेत् तर्हि प्रत्येकस्य कार्यानुत्पादकत्वेऽपि समुदायस्य कार्योत्पादकत्वं स्यात्, न चैवम्, प्रमाणाभावेन प्रत्येकातिरिक्तस्य समुदायस्याभावादित्यर्थः । ननु कारणता द्विविधा-स्वरूपयोग्यतालक्षणा फलोपधानलक्षणा च, तत्राऽऽद्या प्रत्येकं स्वस्वाऽसाधारणधर्मरूपेण, द्वितीया तु सकलसहकारिसमवहितत्वविशिष्टतद्धर्मेणेति सहकारिणामसमवधाने स्वरूपयोग्यकारणमात्रान्न कार्यनिष्पत्तिः सहकारिणां समवधाने तु फलोपहितकारणसद्भावतः कार्योत्पत्तिरिति शङ्कते-अथेति । अवच्छेदकम् इतरकारणसमवहितस्य कारणत्वे त्वितरकारणसाहित्यं तदवच्छेदकं न्यायप्राप्तं यद्विशिष्टस्य कारणत्वं तस्य कारणतावच्छेदकत्वनियमात्, एवं सति इतरकारणसमवधाने सति कार्योत्पादकत्वं कारणस्य स्वभाव इत्युक्तस्वभावो नित्ये सर्वदैवाभ्युपेयः, अन्यथा स्वभावाभावे स्वभाववतोऽप्यभाव इति नित्यत्वमेव न स्यात्, तथा च तत्स्वभावस्य सर्वदा भावे तत्स्वभावप्रविष्टं सहकारिसाहित्यमपि सर्वदैव भवितुमर्हति, विशिष्टस्य विशेषणसद्भाव एव भावो नान्यथेति तत्स्वभावान्यथानुपपत्त्याऽसमवहितानपि सहकारिणः स्वसमीपमानयेदेव कारणमिति सर्वदोक्तस्वभावबलात् कार्य कुर्यादेव कारणमिति समाधत्ते-इतरका रणसाहित्यमपीति । अनुनमन्त्यपि समी