________________
३२]
[तत्त्वबोधिनीविवृतिविभूषितम् साहित्यमपि यद्येकैककारणस्य कार्योपधानस्वभावानुप्रविष्टं तदाऽनुपनमन्त्यपि तानि गलेपादिकया गृहीत्वा प्रतिक्षणं कार्य कुर्यात् । अथ कारणे हेत्वन्तरोपनिपातेन कार्यजननस्वभाव उत्पद्यत इति केवलस्य न जनकत्वम् , न च सहकारिसहिताऽसहितावस्थयोरस्य खभावभेदः, प्रत्ययान्तरापेक्षस्वकार्यजननस्वभावतायाः सर्वदा भावादिति चेत् ? न-प्रत्ययान्तरसत्त्वेऽपि ह्यस्य स्वरूपेणैव कार्यकारिता, तच्च प्रागप्यस्ति, प्रत्ययान्तरापेक्षायाश्च ततो लभ्यस्या
पमप्राप्नुवन्त्यपि । तानि सहकारीणि । नित्यवादी शङ्कते अथेति । केवलस्य सहकार्यसमवहितस्य । न जनकत्वं कार्यजननस्वभावे सत्येव कार्यजनकत्वं भवति, कैवल्यावस्थायां च कार्यजननस्वभावानुकूलस्य हेत्वन्तरोपनिपातस्याऽभावात् कार्यजननस्वभावाऽनुत्पत्त्या न कार्यजनकत्वम् । ननु सहकारिसमवधाने उत्पद्यमानत्वात् कार्यजननस्वभावोऽस्ति, सहकार्यसमवधाने च कार्याजननस्वभाव इत्येवं स्वभावभेदात् कारणस्य भेदप्रसङ्ग इत्याशय प्रतिक्षिपति- न चेति । अस्य कारणस्य । निषेधे हेतुमाह-प्रत्ययान्तरापेक्षेतिकारणस्य प्रत्ययान्तरापेक्षस्वकार्यजननस्वभाव एक एवोपेयते, स सर्वदैवास्तीति स्वभावभेदाभावात् कारणभेदाप्रसक्तिरित्यर्थः । समाधत्ते-नेति । अस्य कारणस्य । तच्च कार्यकारित्वनियतं स्वरूपं च । प्रागपि सहकारिसमवधानकालात् प्राकालेऽपि । तत्र कारणान्तरापेक्षा तदोपयोगिनी भवेद यदि कारणान्तरेण कश्चिदतिशयस्तत्र भवेत् । तदभावे चाऽनुपकारिणः कारणान्तरस्यापेक्षाया असम्भव एव, तथा च केवल एव किं न कार्य कुर्यात् , यदा च केवलः कार्य न करोति सहकारिसमवहितश्च कार्य करोति तदा नूनमस्य विभिन्नस्वभावतेति न नित्यस्य कार्यकारित्वमित्याह--प्रत्ययान्तरापेक्षायाश्चेति-अस्य 'असम्भवः' इत्यनेनान्वयः ।