________________
[३३
अनेकान्तव्यवस्थाप्रकरणम्] त्मातिशयस्याभावादसम्भव इति केवल एव कार्य किं न कुर्यात् ? अकुर्वश्च केवलः सहितावस्थायां च कुर्वन् कथं न भिन्नस्वभावो भवेत् ? तन्नाऽक्षणिकस्य क्रमेणार्थक्रिया सम्भवतीति न क्रमयोगः। योगपद्यमपि तस्यासङ्गतम् , द्वितीयादिक्षणेषु तावत एव कार्यकलापस्योदयप्रसङ्गाद् , हेतोस्तजननस्वभावस्याप्रच्युतेः, सनिहितसकलकारणानां चानुदयोऽयुक्तः, प्रथमक्षणेऽपि तद्भावापत्तेः, इति क्रमयोगपद्यायोगादक्षणिकानामर्थक्रियासामर्थ्य विरहलक्षणमसत्त्वमाया
ततः प्रत्ययान्तरतः । तथा च नित्यस्य न क्रमेणाऽर्थक्रियाकारित्वमित्युपसंहरति-तदिति-नञः 'सम्भवति' इत्यनेनान्वयः।
नित्यस्य युगपदर्थक्रियाकारित्वमपि न सम्भवतीत्युपदर्शयतियोगपद्यमपीति-युगपदर्थक्रियाकारित्वमपीत्यर्थः । तस्य नित्यस्य । कथं नित्यस्य योगपद्यमसङ्गतमित्यपेक्षायामाह- द्वितीयादीति-आदिपदात् तृतीयादिक्षणपरिग्रहः, प्रथमक्षणे यावत्कार्यकलापस्योदयो भवति तावत्कार्यकलापस्य द्वितीयादिक्षणेऽप्युदयः प्रसज्येत, तावत्कार्यकरणस्वभावस्य कारणस्य द्वितीयादिक्षणेऽप्यविनाशादित्यर्थः । सन्निहितेति-येषां कार्याणां सकलानि कारणानि सन्निहितानि तेषां सन्निहितसकलकारणानां कार्याणामुदयो न भवतीत्येवमुपगमोऽप्ययुक्त एवेत्यर्थः, यदि सकलकारणसन्निधानेऽपि द्वितीयादिक्षणे तावत्कार्यकलापस्याऽनुदयस्तर्हि प्रथमक्षणेऽप्यनुदयः प्रसज्येतेत्याह-प्रथमक्षणेऽपीति । तद्भावापत्तेः सन्निहितसकलकारणानां कार्याणामनुदयापत्तेः । तथा च नित्यस्य क्रमेण योगपद्येन चार्थक्रियाकारित्वाभावादर्थक्रियाकारित्वाभावलक्षणमसत्त्वमेवेति । सत्त्वलक्षणहेतुर्विपर्ययबाधकप्रमाणबलात् क्षणिकत्वेन साध्येन सह निश्चिततादात्म्यलक्षणाविनाभावः क्षणिकत्वं साधयत्येवेत्युपसंहरति-इति क्रम - योगपद्यायोगादिति । स्थिरवादी क्षणक्षयवादिनं