________________
३४]
[ तत्त्वबोधिनीविवृतिविभूषितम् तमिति सत्त्वलक्षणः स्वभावहेतुः क्षणिकतायां बाधकप्रमाणबलान्निश्चिततादात्म्यः कथं न गमकः ? । अथाक्षणिकानामिव क्षणक्षयिणामप्यर्थक्रियासामर्थ्यलक्षणं सत्त्वमनुपपन्नमेव, क्रमायोगस्य तत्रापि तदवस्थत्वात् , यौगपद्यस्य च प्रत्येक्षेणैव बाधात् , न च विशिष्टहेतुक्रमादेव कार्यक्रमः, तेष्वेकत्वाभिमानश्च सादृश्यादिति वाच्यम् , प्रतिक्षणोदयं विभ्राणेषु हेतुषु परस्परतो विशेषाधानस्यैव दुर्वचत्वात् , प्रत्ययजनितविशेषस्य खोत्पत्तेः प्राक् पश्चाद् वाऽसम्भ
प्रति प्रत्यवतिष्ठते-अथेति । क्रमायोगस्य क्रमेणार्थक्रियाकारित्वाभावस्य । तत्राऽपि क्षणिकेऽपि । एकं कारणमेकक्षणे एकमेव कार्य कुर्वद दृश्यत इति प्रत्यक्षबाधतो युगपदनेककार्यकारित्वमपि क्षणिकस्य न सम्भवतीत्याह-योगपद्यस्यति । ननु तत्तत्कार्यानुकूलविशेषवद्धेतुक्रमात् कार्यक्रमः क्षणिकेषु सम्भवति, ननु क्रमिकविशिष्टक्षणिकहेतुभावे तेषां भेदप्रतिभासः स्यादिति चेत् ? न-सौसादृश्यदोषेण तेषामेकत्वाभिमानतो भेदप्रतिभासाभावादित्याशङ्कय प्रतिक्षिपतिन चेति-अस्य 'वाच्यम्' इत्यनेनान्वयः। तेषु विशिष्टस्वरूपक्षणिकऋमिकहेतुषु । स्थिरे कारणे कारणान्तरतो विशेषाधानतो विशिष्टता भवेत् , प्रतिक्षणमुदयमासादयत्सु च कारणेषु न परस्परतो विशेषाधानसम्भव इति न विशिष्टतेति विशिष्टहेतुक्रमस्यासिद्ध्या ततः कार्यक्रमासम्भवादित्याह-प्रतिक्षणोदयमिति । कथं विशेषाधानस्य दुर्वचत्वमित्यपेक्षायामाह-प्रत्ययेति-कारणेत्यर्थः । स्वोत्पत्तः प्राक् स्वस्यैवाऽसम्भवेन तत्र प्रत्ययतो विशेषाधानाऽसम्भवादित्याह-प्रागिति । तेषामेवेति-येषु कारणेषु प्रत्ययतो विशेष आधेयस्तेषामेवेत्यर्थः। उत्पत्तेः पश्चादपि तेषु कारणतो विशेषाधानं तदा कल्पयितुं शक्यं यदि विशेषोपहितक्षणतस्तदनुपहितक्षणस्य विवेको भेदेन ग्रहणलक्षणो भवेत्, तस्याऽभावेन च स्वरूपं पूर्वापरयोरविशिष्टमेवेति