________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[३५ वात् , प्राक् तेषामेवासत्त्वात् , पश्चादप्युपहितानुपहितक्षणाविवेकेन तत्स्वरूपस्य तस्याकार्यत्वात् , अतिरिक्तस्य च सम्बन्धाभावादिति न सहकारिभिरुपकारः, ततो निर्विशेषाणां क्रम-योगपद्याभ्यामर्थक्रियाकारित्वलक्षणं न सत्त्वम् , तदुक्तम्
"कः शोभेत वदन्ने यदि न स्यादहीकता। अज्ञता वा यतः सर्व क्षणिकेष्वपि तत्समम् ॥१॥
तस्याकार्यत्ववत् तदात्मकविशेषस्याप्यकार्यत्वादिति पश्चादपि विशेषाधानं न सम्भवतीत्याह-पश्चादपीति । तत्स्वरूपस्य कारणस्वरूपस्य । तस्य विशेषस्य । यदि च पूर्वपूर्वकारणत उत्तरोत्तरकारणेषु आधीयमानो विशेषस्तत्स्वरूपतो. व्यतिरिक्त एव तर्हि तस्य विशेषस्य तत्कारणस्वरूपतो भिन्नस्य भेदे सम्बन्धायोगादिति नियमतः सम्बन्धाऽसम्भवात् ततो विशिष्टता न सम्भवतीत्याह-अतिरिक्तस्येतिकारणस्वरूपतो भिन्नस्य विशेषस्येत्यर्थः । एवं च क्षणिकेषु कारणेषु सहकारिभिरुपकारलक्षणोऽतिशयो न सम्भवतीत्याह-इति न सहकारिभिरुपकार इति । यदा च विशेषो न तेषु तर्हि अविशिष्टस्वरूपाणां क्षणिकानां कारणानां क्रमेण योगपद्येन वाऽर्थक्रियाकारित्वाभावानार्थक्रियाकारित्वलक्षणं सत्त्वं तेषु सङ्गतमित्युपसंहरति-तत इति ।
उक्तार्थे प्राचां सम्मतिमाह-तदुक्तमिति । क इति-यदि निर्लजता न भवेत्, वा अथवा, अज्ञता न भवेत् तर्हि एवं स्थिरेषु क्रमयोगपद्याभ्यामर्थक्रियाकारित्वलक्षणं सत्त्वं न सम्भवतीत्येवं वदन् ब्रुवाणः सन् कः शोभेत न कोऽपि शोभेत, इत्थं वक्तुं निर्लजोऽशो वा समर्थो नाऽन्य इत्यर्थः, यतः यस्मात् कारणात्, यैर्हेतुभिरक्षणिकेषु कारणेषु क्रम-योगपद्याभ्यामर्थक्रियाकारित्वाऽसम्भवः क्षणिकवादिभिरभिधीयते तत् सर्व क्षणिकेष्वपि तुल्यमित्यर्थः ॥ १॥