________________
[ तत्त्वबोधिनीविवृतिविभूषितम्
३६ ]
विशेषहेतवस्तेषां प्रत्यया न कथञ्चन । नित्यानामिव युज्यन्ते क्षणानामविवेकतः ॥ २ ॥ क्रमेण युगपच्चैव यतस्तेऽर्थक्रियाकृतः । न भवन्ति ततस्तेषां व्यर्थः क्षणिकताश्रमः ॥ ३ ॥"
[ ] इति, तदयं सत्ताहेतुरसाधारणानैकान्तिक इति चेत् ? असदेतत्सहकारिजनितस्य कारणगत विशेषस्याऽसम्भवेन निर्विशेषत्वेऽपि ' सामग्र्याः कार्यजनकत्वम्' इति प्रवादात् समग्राणां प्रत्येकमितरेतरसहकारिणां स्वस्वविशिष्टक्षणान्तरारम्भकत्वात् तदनन्तरमपि तथैव तदारम्भसम्भवात् सविशेषत्वाभ्युपगमे बाधकाभावात्,
विशेष हेतव इति - यथा नित्यानां विशेषहेतवः प्रत्यया न घटते तथा क्षणिकानामपि पूर्वोत्तरक्षणाविवेकतो विशेषहेतवः प्रत्यया न युज्यन्त इत्यर्थः ॥ २ ॥
क्रमेणेति- - यस्मात् कारणात् क्षणिकाः क्रमेण युगपच्चार्थक्रियाकारिणो न सम्भवन्ति तस्मात् कारणात् कारणानां क्षणिकतासाधनप्रयासो व्यर्थ इत्यर्थः ॥ ३ ॥
एतावता क्षणिकत्वसाधकतया बौद्धाभिमतः सत्त्वहेतुः सपक्षे क्षणिके विपक्षेऽक्षणिके च वृत्तित्वाभावात् सपक्षविपक्षोभयवृत्तित्वाभावलक्षणासाधारणानैकान्तिकता दोषदूषित इत्याह- तदयमिति । क्षणक्षयवादी अक्षणिकवादिनः प्रत्यवस्थानं प्रतिक्षिपति - असदेत - दिति । निर्विशेषत्वेऽपि क्षणिकानां सहकारिजनितविशेषशून्यत्वेऽपि । एकैकस्य कारणत्वत एव सामय्याः कारणत्वमुपचर्यते, न तु वस्तुतः सामग्रीत्वेन कारणत्वमित्यवगतये 'प्रवादाद्' इत्युक्तम् । परस्पर सहकारिभावमापन्नानां क्षणिकानामुत्तरोत्तरं स्वविशिष्ट