________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[३७ असमर्थात् समर्थक्षणोत्पत्तौ सहकारिसमवधानप्रयोज्यो विशेषो न स्यात् , तथा च प्रागपि स्यादिति चेत् ? न-असमर्थक्षणे समर्थक्षणकुर्वद्रूपत्वाख्यो यो विशेषस्तत्र सहकारिसमवधाननियतताया एव तत्प्रयोज्याया अभ्युपगमे दोषाभावात् , युक्तं चैतत् , कारणस्यैव कार्योत्पत्तिव्याप्यत्वे लाघवात् , त्वया तु स्वेतरकारणविशिष्ट
क्षणान्तरारम्भकत्वम् , तेऽपि विशिष्टक्षणाः परस्परसहकारिभावमापन्नाः कुर्वद्रूपत्वात्मकविशेषकलितक्षणारम्भका इत्येवं क्षणिकेषु सविशेषत्वाभ्युपगमे बाधकाभावात् , एवं च स्वस्वकुर्वद्रूपात्मकेभ्यः सहकारिसमवहितेभ्यः स्वस्वकार्यकुर्वद्रूपत्वलक्षणविशेषकलितक्षणिकस्वरूपकारणान्युत्पद्यन्त इत्युक्तौ न कश्चिद् दोष इत्याशयः । अत्र परः शङ्कते-असमर्थादिति । प्रतिक्षिपतिनेति । असमर्थक्षणे स्वाव्यवहितोत्पन्नक्षणिकस्य यदनन्तरं कार्य तद. समर्थक्षणे, तेन स्वानन्तरोत्पन्नस्वकार्य प्रति सर्वस्य समर्थत्वेऽपि न क्षतिः । समर्थेति-स्वकार्यकरणसमर्थक्षणलक्षणस्वकार्यकुर्वद्रूपाख्यो यो विशेषस्तस्मिन् विशेषे या सहकारिसमवधाननियतता यदा स विशेषस्तदानीमवश्यं सहकारिसमवधानमिति कृत्वा तस्याः सहकारिसमवधानप्रयोज्यायाः स्वीकारे दोषाऽभावादित्यर्थः । एवं क्षणिकवादाभ्युपगतस्यार्थस्य युक्तत्वमित्याह—युक्तं चैतदिति । कथमुक्तस्य युक्तत्वमित्यपेक्षायामाह --- कार णस्यैवेति-कारणस्य स्वकार्यकरणस्य स्वकुर्वद्रूपात्मकाऽसमर्थक्षणादुत्पन्नस्य नियमतः फलोपधानमिति यदा कारणं तदा कार्योत्पत्तिरिति व्याप्यव्यापकभावस्य सम्भवात् कारणस्य कार्योत्पत्तिव्याप्यत्वे स्थैर्यवादिकल्पनीयस्वेतरसकलकारणविशिष्टकारणत्वेन कार्योत्पत्तिव्याप्यत्वापेक्षया लाघवादित्यर्थः । त्वया तु स्थैर्यवादिना पुनः, अस्य 'स्वीकर्तव्यम्' इत्यनेनाऽन्वयः । एवं च अर्थक्रियासामर्थ्यलक्षणसत्त्व