________________
३८ ]
[ तत्वबोधिनीविवृतिविभूषितम्
कारणत्वेन कार्योत्पत्तिव्याप्यत्वं स्वीकर्तव्यमिति गौरवम्, तस्मात् क्षणिकानामेवार्थक्रियासामर्थ्यलक्षणं सत्त्वं सम्भवतीति नाऽसाधारणानैकान्तिकता । अथ क्षणिकक्षित्याद्यनेककारणजनितं कार्यमेकं न स्यात्, अनेककारणजनितस्यैकत्वाऽसिद्धेरिति चेत् ? एकमेकं करोतीति कुतोऽवगतम् ? तद्भावे तद्भावादिति चेत् ? समानमेतदनेकत्र, तथाहि - एकमङ्करादिकार्यमङ्गीकृत्य विशिष्टक्षणान्तरोत्पादनलक्ष
रूपहेतुर्विपक्षादक्षणिकादेव व्यावर्तते, न सपक्षात् क्षणिकादिति नाऽसाधारणानैकान्तिकता तस्येत्याह – तस्मादिति । ननु भवन्मते प्रत्येकं सर्वस्य कारणस्यैककार्योत्पत्तिव्याप्यत्वमायातम्, तथा च न सामग्रीलक्षणमेकं कारणमेककार्यव्याप्यं किन्त्वनेकानि कारणान्येककार्यव्याप्यानीति तत् कथं सङ्गतम् ? कारणानामनेकत्वे तज्जनितकार्यस्याप्यनेकत्वस्यैव युक्तत्वादित्यनेककारणजनितस्यैकत्वासिद्ध्याऽनेककारणजनितमेकं कार्यमित्यस्याऽसम्भवादित्याशङ्कते - अथेति । एकमेकं करोतीति नियमे सत्यनेककारणजनितस्यैकत्वं न स्यात्, तत्रैव तु न मानम्, एकस्मादेकस्य भाव इति दर्शनाद् यद्येकमेकं करोतीत्युपेयते तर्ह्यनेकभावेऽप्येककार्यस्य दर्शनादनेकमेकं करोतीत्यपि किं न स्यादित्याशयवान् समाधाता शङ्कितारं पृच्छति - एकमेक्रमिति । शङ्कितोत्तरयति-तद्भावे तद्भावादिति
चेदिति - एकस्य कारणस्य भावे एकस्य कार्यस्य भावादेकमेकं करोतीति यद्युपेयत इत्यर्थः । समाधाता आह- समानमिति – अनेककारणभावे सत्येकस्य कार्यस्य भावादनेकमेकं करोतीत्यनेककारणेऽपि समानमित्यर्थः । अनेकस्यैककार्योत्पादकत्वं भावयतितथाहीति । विशिष्टेति - सम्मिलितानां क्षित्यादीनां स्वकार्य सामर्थ्यविशिष्टक्षित्यादिक्षणोत्पादनलक्षणातिशयाधानेन प्रवृत्तिः, अर्थादङ्कुरादिकार्यजननाऽसमर्थाः क्षित्यादयो नाऽङ्कुरादिकार्यमुत्पा