________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[२५ मेव, उत्तरकार्योत्पत्तावप्येवं द्रष्टव्यमिति सामर्थ्य भेदेन पदार्थभेदात् कथं न क्षणिकत्वम् ?, यथा च दृष्टेषु घटादिषु क्षणिकत्वव्याप्तमर्थक्रियाकारित्वरूपं सत्त्वं सिद्धं तथाऽदृष्टेष्वपि सिद्ध्य
तदैव एककार्यकरणकाल एव । कथं न तत्तत्कार्यकरणकालात् पूर्व तत्पश्चाद् वा तत्कार्यकरणसामर्थ्यमित्यपेक्षायामाह-तत्कायोभावादितितत्कालात् पूर्व पश्चाच्च तत्कार्यानुत्पत्तेस्तत्करणसामर्थ्य तत्कालभिन्नकाले नास्तीत्यर्थः। तद्गतोक्तसामर्थ्यस्य तत्काल एव सत्त्वे तस्यापि तत्काल एव सत्त्वं तस्य तदभिन्नत्वादित्याह-सामर्थ्य विति। ततः तत्कार्यकरणसमर्थाद् वस्तुनः । अव्यतिरिक्तमेव अभिन्नमेव, भेदे सामर्थ्यस्य तत्कालमात्रे एवावस्थानेऽपि तद्वतोऽन्यकालेऽप्यवस्थानं स्यादपीत्यतस्तत्प्रतिषेधायैवकारोपादानम् । यथैककार्यकरणं प्रति सामर्थ्य तत्कार्यकरणकाल एव, अभिन्नं च तत् ततः, तथा उत्तरकार्यकरणं प्रति यत् सामर्थ्य तदप्युत्तरकार्यकरणकाल एव, तदप्युत्तरकार्यकरणसमर्थवस्तुनोऽभिन्नमेवेत्याह - उत्तरकार्योत्पत्तावप्येवं द्रष्टव्यमिति । इति एतस्माद्धेतोः। सामर्थ्य भेदेन पूर्वकार्यकरणसामर्थ्यमन्यत् तदन्यच्चोत्तरकार्यकरणसामर्थ्यमित्येवं सामर्थ्यभेदेन । पदार्थभेदादू विभिन्नसामर्थ्ययोगतस्तद्वतः पदार्थस्य भेदात् । कथं न क्षणिकत्वम् ? अर्थात् क्षणिकत्वं स्यादेव । दृष्टस्य घटादिलक्षणपदार्थस्य प्रतिक्षणमान्यान्यकार्यसामर्थ्यतः प्रतिक्षणमन्यान्यभावतःक्षणिकत्वम् , तथैवाऽदृष्टानामपि पदार्थानां पूर्वक्षणभाविकार्यकरणसामर्थ्य तत्कालमत्रवृत्त्यन्यत् तदन्यच्चोत्तरक्षणभाविकार्यकरणसामर्थ्यमित्यतस्तेषामपि प्रतिक्षणमन्यान्यभावतः क्षणिकत्वं सिध्यतीत्यर्थक्रियाकारित्वलक्षणसत्त्वहेतोः क्षणिकत्वलक्षणसाध्यस्य सर्वोपसंहारेण व्याप्त्यवगमः स्यादेव, ततश्च क्षणिकत्वव्याप्तं सत्त्वं यत्र यत्र निश्चीयते तत्र क्षणिकत्वानुमानं साध्य हेत्वोस्तादात्म्यलक्षणाविनाभावनिश्चयतः प्रवर्तयन्ति विद्वांस इत्याह-तथाऽदृष्टेऽपीति । सिद्ध्यति क्षणिकत्वव्या