________________
२४]
[ तत्त्वबोधिनीविवृतिविभूषितम् पत्तेः, कालोपाध्यन्तरक्रमापेक्षतत्क्रमाभ्युपगमे चानवस्थानात् , स्वरूपेण तत्क्रमाभ्युपगमे च बहूनामसहायानां कार्याणामेव स्वरूपतः क्रमः किं न भवेत् ? अस्माकं तु लोकसिद्धकाल-तत्क्रमाभ्युपगमान दोषः, तस्माद् घटादिः पदार्थोऽर्थक्रियाकारी क्रमाक्रमाभ्यां प्रत्यक्षसिद्धः, तस्यैककार्यकरणं प्रति यत् सामर्थ्य तत् तदैव, न पूर्व न पश्चात् , तत्कार्याभावात् , सामर्थ्य तु ततोऽव्यतिरीक्तप्रतिक्षिपति-न चेति-अस्य :युक्तः' इत्यनेनान्वयः । कालस्यैकत्वे तत्सम्बन्धतः कालोपाधीनामपि क्रमो न भवेत, ततश्च तत्कृतोऽपि कार्यक्रमो न स्यादित्याह-कालस्येति । तयोगात् कालसम्बन्धात् । तदुपाधीनां कालोपाधीनाम्, एककालसम्बन्धादपि कालोपाधीनां क्रमाभ्युपगमे कालसम्बन्धात् कार्यक्रमस्यापि सम्भवेन कालोपाधिक्रमात् कार्यक्रमस्वीकारस्याऽयुक्तत्वं स्यादिति भावः। ननु कालस्याऽन्ये ये उपाधयस्तत्क्रमाद् विवक्षितकालोपाधिक्रमः, ततश्च कार्यक्रम इत्यत आह-कालोपाध्यन्तरक्रमेति । अनवस्थानादिति-कालोपाध्यन्तराणामपि क्रमो नैककालसम्बन्धाद् भवितुमर्हतीति कालोपाध्यन्तरक्रमादेव सोऽभ्युपेयः, एवं तत्कालोपाध्यन्तरक्रमोऽपीत्येवमविश्रान्तेरित्यर्थः । कालोपाधीनां न कालोपाध्यन्तरक्रमात् क्रमः, किन्तु स्वरूपत एवेति नाऽनवस्थेत्येवमुपगमे कार्याणामेव स्वरूपतः क्रमः किं नाऽभ्युपेयते ? अलं कालोपाधिक्रमाधीनतत्क्रमकल्पनयेत्याहस्वरूपेणेति । तत्क्रमाभ्युपगमे च कालोपाधिक्रमाभ्युपगमे पुनः । यद्यपि परमार्थतो बौद्धमते कालो नास्ति तथापि लौकिकक्षण लव-पलदण्ड-मुहूर्त-याम-दिन-मास-वर्षादिव्यवहारानुरोधेन लोकसिद्धकाल तत्क्रमयोबौद्धमतेऽप्युपगमोऽस्त्येवेति ततः कार्यक्रमस्याप्युपगमसम्भवान्न बौद्धमते कश्चिद् दोष इत्याह-अस्माकं त्वितिबौद्धानां पुनरित्यर्थः। तत्कमेति-कालक्रमेत्यर्थः। उपसंहरतितस्मादिति । तस्य घटादेः । तत् एककार्यकारणं प्रति सामर्थ्यम् ।