________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[५१ धिक्यम्। न च पूर्वप्रसिद्धमेवाग्न्यादिसामान्यं देशादिविशिष्टतयाऽधिगच्छतोऽनुमानस्य यथा न प्रामाण्यव्याहतिस्तथा प्रागुपलब्धमेव सामान्यादि देशादिविशिष्टतया प्रतिपद्यमानस्यापूर्वप्रमेयसङ्गतेन प्रामाण्यक्षतिरिति वक्तव्यम् , द्वितीयप्रत्यक्षत एव तत्सिद्धेः प्रत्यभिज्ञानस्याऽपूर्वप्रमेयाऽयोगात् , नहि 'सोऽयम्' इत्युल्लेखद्वयाक्रान्तं प्रत्यभिज्ञानविषयद्वयं प्रत्यक्षद्वयगोचरादतिरिक्तमिति । न च यथा वस्तुस्वरूपग्राहिणाऽध्यक्षेण तदव्यतिरिक्ते क्षणक्षयेऽधिगतेऽपि तनिश्चिन्वानाऽनुमितिः समारोपव्यवच्छेदकतयैव प्रमाणम् , तथा प्रत्यभिज्ञा दर्शनद्वयगृहीतेऽप्यर्थे समारोपनुपलब्धपर्वतादिदेशविशेषसम्बन्धितया तस्यावगाहनादनुमानस्य प्रामाण्यं तथा सामान्यादेः पूर्वोपलब्धत्वेऽपि पूर्वानुपलब्धदेशादिविशिष्टतयाऽवगाहनादपूर्वप्रमेयसद्भावेन प्रत्यभिज्ञानस्य प्रामाण्यमित्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'वक्तव्यम्' इत्यनेन सम्बन्धः । निषेधे हेतुमाह-द्वितीयप्रत्यक्षत एवेति । तत्सिद्धेः देशादिविशिष्टतया सामान्यस्य सिद्धः। अपूर्वप्रमेयाभावमेव व्यवस्थापयति नहीति-अस्य 'अतिरिक्तम' इत्यनेनान्वयः, पूर्वदेशोऽतीतप्रत्यक्षगोचरो यः ‘स' इत्यनेनोल्लिख्यते, वर्तमानपुरोवर्तिदेशश्च वर्तमानप्रत्यक्षगोचरो यः 'अयम्' इत्यनेनोल्लिख्यते, इत्येवं प्रत्यभिज्ञानविषयद्वयं प्रत्यक्षद्वयगोचरान्न व्यतिरिक्तमिति तादृशदेशद्वय विशिष्टमपि सामान्यं प्रमाणान्तराधिगतमेवेत्यपूर्वप्रमेयाभाव इत्याशयः । अपूर्वप्रमेयाभावेऽपि समारोपव्यवच्छेदकत्वात् क्षणक्षयानुमानवत् प्रत्यभिज्ञायाः प्रामाण्य मित्याशङ्कय प्रतिक्षिपतिन चेति-अस्य ' वाच्यम्' इत्यनेन सम्बन्धः। तदव्यतिरिक्ते वस्त्वभिन्ने । तनिश्चिन्वाना क्षणक्षयनिश्चयं कुर्वाणा, समारोपध्यवच्छेदकतयैव अक्षणिकत्वारोपव्यवच्छेदकतयैव । समारोपव्यवच्छेदकत्वात् भिन्नत्वा