________________
[तत्त्वबोधिनी विवृतिविभूषितम् किश्व, सत्सम्प्रयोगजत्वमपि प्रत्यभिज्ञानस्यासिद्धम्, बहिरवस्थिततदेतत्कालसंस्पश्येकार्थेन्द्रियसम्प्रयोगासिद्धेः । यदपि 'एतत् प्रत्यभिज्ञानं देशादिभिन्नसामान्यालम्बनम् ' इत्युक्तम्, तदप्यसङ्गतम् - सामान्यादेरपि भिन्नस्य तद्विषयस्याभावात् भावेऽपि भूयः प्रमाणगोचरीकृते तत्र प्रवर्तमानस्य प्रत्यभिज्ञानस्थान घिगतार्थाधिगन्तृत्वायोगात् । मिन्नाभिन्नालम्बनत्वेऽपि च प्रत्यभिज्ञानस्य न प्रामाण्यम्, अपूर्वप्रमेयाभावात्, नहि देशादयस्तत्र प्रत्यभिज्ञायन्ते, प्रागदर्शनात् तेषाम्, पूर्वोपलब्धे तु सामान्यादौ न प्रमेयासत्संप्रयोगजत्वमपि पराभिप्रेतमसिद्धमेवेति न ततः प्रत्यभिज्ञायाः प्रत्यक्षत्व सिद्धिरित्याह- किञ्चेति । सत्संप्रयोगजत्वस्याऽसिद्धत्वे हेतुमुपदर्शयति- बहिरिति - बहिरवस्थितो यस्तदेतत्काल संस्पर्शी - अतीतवर्तमानकालसम्बन्धी एकोऽर्थस्तेन सहेन्द्रियसम्प्रयोगस्य- इन्द्रियसम्बन्धस्याऽसिद्धेरित्यर्थः । अन्यदपि प्रत्यभिज्ञानस्य प्रामाण्यप्रसाधनाय परोक्तं न सङ्गतमित्याह - यदपीति । तद्विषयस्य प्रत्यभिज्ञानविषयस्य । भावेऽपि देशादिभिन्नसामान्यस्य प्रत्यभिज्ञानविषयस्य भावेऽपि । भूयः अनेकवारम् । तत्र सामान्ये, अनधिगतार्थाधिगन्तृत्वेन ज्ञानस्य प्रामाण्यं भवति, सामान्यं तु प्रमाणान्तराधिगतमेवेत्यनधिगतार्थाधिगन्तृत्वाभावान्न प्रत्यभिज्ञानस्य प्रामण्यमित्यर्थः । सामान्यस्य पूर्वापरदेशादितो भिन्नाऽभिन्नत्वमुररीकृत्य तदवगाहित्वेन प्रामाण्योपपादनमपि प्रत्यभिज्ञानस्य न युक्तम्, तथात्वेऽपि प्रत्यभिज्ञानस्याऽपूर्वप्रमेयाभावात् यतो न देशादयस्तत्र प्रथन्ते, सामान्यादिकं तु तत्र भासमानं पूर्वोपलब्धत्वान्नाऽपूर्वमित्याहभिन्नाऽभिन्नालम्बनत्वेऽपीति । प्रागदर्शनात् तेषां देशादीनां प्रागदर्शनात्, य एव च प्रागनुभवगोचरस्तस्यैव प्रत्यभिज्ञायामवभासनमित्यभिसन्धिः । यथाऽग्न्यादिसामान्यस्य पूर्वप्रत्यक्षविषयत्वेऽपि पूर्वा
५०
]