________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[४९ अप्रमाण्यनिश्चयोऽस्या अप्रामाण्ये च क्षणिकत्वानुमानप्रामाण्यमित्यन्योन्याश्रयदोषोपनिपातः, यतो न क्षणिकत्वानुमानप्रामाण्य प्रत्यभिज्ञाप्रामाण्याधीनम् , अपितु विपर्यबाधकप्रमाणाऽऽहितस्वसाध्यप्रतिबन्धनिश्चयाधीन मिति । किञ्च, 'अयम्' इत्युल्लेखवद् वर्तमानकालकार्यजनकं स्वभावं वस्तुनः परामृशति, ‘स एव' इत्युल्लेखवच्च प्राक्तनं तदजनकं स्वभावमिति विरुद्धोभयस्वभावावगाहित्वात् कथं प्रत्यभिज्ञानं प्रमाणम् ?, अपि च क्षणविशरारुषु भावेषु सदृशापरापरोत्पत्त्यादिविप्रलम्भहेतोरुपजायमानं तद् दुष्टकारणारब्धत्वादेवाऽप्रमाणम् , अपि च, लून-पुनरुदितकेशादिष्वेकत्वाभावेऽप्यस्य प्रवर्तमानस्य दर्शनात् कुतः स्वविषयव्यवस्थापकत्वम् ।
हेतुमाह-यत इति । न केवलं क्षणिकत्वानुमानबाधितत्वान्न प्रत्यभिक्षायाः प्रामाण्यं किन्तु विरुद्धोभयस्वभावैकवस्त्ववगाहित्वादपि न प्रामाण्यमित्याह-किश्चेति- स एवाऽयम्' इति प्रत्यभिज्ञानम् 'अयम्' इत्युल्लेखवत् ‘स एव' इत्युल्लेखवञ्च, तत्राऽयमित्युल्लेखपत् प्रत्यभिज्ञानं वर्तमानकालकार्यजनकं वस्तुनः स्वभावं परामृशति, स एवेत्युल्लेखवञ्च तद्वस्तुनः प्राक्तनं वर्तमानकालकार्याजनकं स्वभावं परामृशतीत्येवं विरुद्धोभयस्वभाववस्त्ववगाहित्वात् प्रत्यभिज्ञानं कथं प्रमाणम् ? न प्रमाणमेवेत्यर्थः। दुष्टकारणारब्धस्वादपि प्रमाणं न प्रत्यभिज्ञानमित्याह-अपि चेति । विप्रलम्भहेतोः एकत्वभ्रान्तिहेतोः। तत् प्रत्यभिज्ञानम् , विप्रलम्भहेतुत्वात् सदृशापरापरोत्पत्त्यादिरेवात्र दोषः । एकत्वाभाववत्स्वपि लून-पुनरुदितकेशादिष्वेकत्वावगाहितया प्रत्यभिज्ञानस्य प्रवृत्तेर्दर्शनान तस्य स्वविषयव्यवस्थापकत्वमिति प्रत्यभिशयैकत्वाव्यवस्थितौ न क्षणिकस्वबाध इत्याह-अपि चेति । प्रत्यभिज्ञायाः प्रत्यक्षत्वनियामकं