________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १०३
"
जनका जनकस्वभावभेदः स्याद् अभेदप्रतिभासेन कल्पनाबाधस्तूभयत्र तुल्यः, नाना कार्यजनकै कस्वभावस्यानुभवसिद्धस्य वस्तुनः प्रत्याख्यातुमशक्यत्वात् ।
किश्व, यदि नाम क्रम-यौगपद्याभ्यां नित्यादर्थक्रिया व्यावृत्ता तथापि न ततः क्षणक्षयसिद्धिः, अक्षणिकेभ्य इव क्षणिके
इत्येवं जनकाऽजनकस्वभावभेदः स्यात्, तथा च तत्प्रयुक्त एकक्षणेऽपि क्षणिकस्य वस्तुनो भेदः प्रसज्यत इत्यर्थः । नन्वेकक्षणमात्रस्थायिनोऽभेदः प्रतिभासत इति तेनाभेदप्रतिभासेन भेदप्र तिभासिकल्पना बाध्यत इति बाधितकल्पनया न क्षणिकस्य भेदव्यवस्थितिरिति चेत् ? एवं सति नित्येऽपि वस्तुन्यभेदप्रतिभास उपजायत इति तेनाभेदप्रतिभासेन बाधिता भेदप्रतिभासिकल्पना कथं नित्येऽपि वस्तुनि स्वभावभेदारोपणतो भेदं व्यवस्थापयेदित्याह-अभेदप्रतिभासेनेति । नन्वभेदप्रतिभास एव नित्ये वस्तुनि नाभ्युपेयते, कथं ततोऽभेद ल्पनाबाध इत्यत आह- नानाकार्येतिअनुभूयते च नानाकार्यजनकतयैकं वस्तु तथाऽनुभूयमानतैवैकप्रतिभासः, तस्य तथाऽनुभूयमानवस्तुनोऽपलापासम्भवेऽपलापासम्भवादित्यर्थः, एतावता नित्ये वस्तुनि क्रमेणार्थक्रियाकारित्वमुपपादितमिति न नित्यात् क्रमयौगपद्याभ्यामर्थक्रिया सामर्थ्यलक्षणसत्ता निवर्तत इति कुतस्तस्या नित्यान्निवर्तमानत्वात् क्षणिकेष्ववस्थितिरिति ।
यथा च नित्यात् क्रम-योगपद्याभ्यामर्थक्रियासामर्थ्यलक्षणा सत्ता निवर्तते तथा क्षणिकादपि क्रम - यौगपद्याभ्यामुक्तस्वरूपा सत्ता निवर्तत इति न नित्यान्निवृत्तिमात्रेण तस्याः क्षणिकेष्ववस्थितिसम्भव इत्याह- किञ्चेति । तथाऽपि नित्यात् क्रम-यौपद्याभ्यामर्थक्रिया सामर्थ्यलक्षणसत्ताया। निवृत्तत्वेऽपि ततः निरुक्तलक्षण