________________
[ तत्त्वबोधिनीविवृतिविभूषितम् खभावभेदाद् भावा भिद्यन्ते, अन्यथा कल्पना भावानामेकत्वमप्यध्यवस्थतीति नित्यताऽपि तेषां भवेत , यदि चोदिताऽनुदितप्रयोजनापेक्षः कल्पनारोपितोऽपि जनकाऽजनकस्वभावभेदो भावानामभ्युपगन्तव्यस्तदा स्व-परोत्पाद्यकार्यापेक्षया क्षणेऽपि कल्पनारोपितो निरुक्तानुमितिलक्षणकल्पनाविषयेत्यर्थः। अन्यथा कल्पनाविषयीकृत स्वभावभेदप्रयुक्तभेदतो वस्तुनः क्षणिकत्वे | कल्पना अनुमित्यादिरूपा। यदि कल्पनया स्वभावभेदव्यवस्थित्या क्षणिकत्वं तर्हि एकत्वविषयककल्पनयैकत्वव्यवस्थित्या भावानां नित्यताऽपि भवेदित्यर्थः । यदि च कल्पनया यत् कार्यमुपजायते तत्कार्यापेक्षया जनकत्वम् , यत् कार्य नोपजायते तत्कार्यापेक्षयाऽजनकत्वमित्येवं जनकत्वाऽजनकत्वस्वभावभेदो भावानामभ्युगम्यते तझेकक्षणे एकः क्षणिको भावो योऽभिमतः सोऽपि स्वोत्पाद्यकार्यापेक्षया जनकत्वस्वभावः परोत्पाद्यकार्यापेक्षया चाऽजनकत्वस्वभाव इत्येवं जनक त्वाऽजनकत्वस्वभावभेदादेकक्षणेऽप्येकतयाऽभिमतस्य क्षणिकस्य भेदः स्यादित्येकं किमपि न स्यात्, एकाभावे चानेकमपि कथं भवेत् ? यदेकं न भवति तदनेकमिति गीयते. इत्येकस्य जगत्यभावे न तस्य निषेध इत्येकापेक्षत्वादनेकस्यैकाभावे न सत्त्वं स्यादित्याशयेनाह-यदि चेति-क्रमेण कार्य कुर्वतो नित्यस्य यत् कार्य यदोत्पद्यते तदा तत् कायमुदितप्रयोजनं प्रयोजनपदस्य कार्यपरत्वात् . तदवेक्षः कल्पनाऽऽरोपितो जनकस्वभावः, यच्च कार्य पुनस्तस्यैव नित्यस्य तदानीं नोत्पद्यते किन्तु कालान्तरे जातं भविष्यति वा तत् कार्यमनुदितप्रयोजनम् , तदवेक्षः कल्पनारोपितोऽजनकस्वभाव इत्येवं जनकाऽजनकस्वभावभेदो भावानां क्षणिकवादिना वस्तुभेदसाधकतयाऽभ्युपगन्तव्यः, तदा स्वोत्पाद्यकार्यापेक्षया क्षणे. ऽपि क्षणमात्रस्थायिन्यपि पदार्थे कल्पनारोपितो जनकस्वभावः, तदानीमेव च परोत्पाद्यकार्यापेक्षया कल्पनारोपितोऽजनकस्वभाव