________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १०१ ज्ञानमनक्षजमलिङ्गजं सर्वोरसंहारेण प्रतिबन्धग्राहक मूहप्रमाणाख्यमवश्यमभ्युपेयमिति किमप्रकृतेन ? । विवेचितमिदमन्यत्र। ..
। यच्च ‘नित्यात् क्रम-योगपद्याभ्यामर्थक्रियासामर्थ्यलक्षणा सत्ता निवर्तमाना क्षणिकेष्वेवावतिष्ठते' इत्याधुक्तम् , तदसत्क्रमेण कार्यजननेऽपि जनकत्वा जनकत्वस्वभावभेदस्य वस्तुभेदासाधकत्वेन तन्नित्यत्वाऽप्रच्यवात् , यतः क्रमोपेतकार्योपलम्भाद् हेतोजनका जनकस्वभावभेदं कल्पनाऽध्यवस्यति, न च तत्प्रदर्शितसामान्यं तथा धूमादिरपि सामान्यमिति तस्य सामान्यत्वेन ज्ञाने यत् सर्वोपसंहारेणाऽविनाभावग्रहणं तदतिरिक्तमूहाख्यप्रमाणमेवाऽभ्युपेयम्, न तु सन्निहितवर्तमानमात्रविषयकज्ञान एव वर्तमानतया प्रमितस्य प्रत्यक्षत्वस्य तत्र कल्पनं युक्तमित्याशयः । एतद्विस्तराधिगमाय रत्नाकर-सम्मत्यादिकमवलोकनीयमिति सूचयितुमाह-विवेचितमिति-अनिन्द्रिजस्यालिङ्गजस्य प्रत्यभिज्ञोहादिशानस्य प्रामाण्य विचारित ग्रन्थान्तर इत्यर्थः । अन्यदपि बौद्धोक्तं सत्त्व-क्षणिकत्वाऽविनाभावव्यवस्थापनप्रत्यलं वचनमुल्लिख्य प्रति. क्षिपति-यच्चेति । नित्य वस्तु सहकार्यसम्पत्तेः पूर्व यदेव कार्य नाऽकारोत् तदेव कार्य सहकारिसम्पत्तितः कगेतीत्येवं क्रमेण कार्यजनकत्वस्योररीकारेण जनकत्वाऽजनकत्वस्वभावभेदो भवनपि न वस्तुतो भेदस्य साधक इत्येकमेव वस्तु जनकाऽजनकोभयस्वभावं पूर्वोत्तरक्षणवर्तीत्यतो न क्रमजननकारित्वेऽपि नित्यत्वस्य क्षतिरिति बौद्धोक्तस्यायुक्तत्वे हेतुमुपदर्शयति-क्रमेण कार्यजननेऽपीति। क्रमेण कार्यजनने स्वभावभेदभावेऽपि वस्तुनो भेदाभावान्नित्यत्वाक्षतिरित्यत्र हेतुमाह-यत इति । हेतोः कारणस्य । क्रमोपेतेति-क्रमिककार्याणामुपलम्भात् । कल्पना जनकाऽजनकस्वभावभेदविषयिण्यनुमितिः, जनकाऽजनकस्वभावभेदम्, अध्यवस्यति अवगाहते । 'न च' इत्यस्य 'भिद्यन्ते' इत्यनेनान्वयः। तत्प्रदर्शितेति