________________
१०० ]
[ तत्त्वबोधिनी विवृतिविभूषितम्
परम्परासम्बन्धेन
त्वप्रकारकत्वमावश्यकमिति चेतु ? तर्हि
जातप्रकार जातित्वप्रकारकत्वमावश्यकमिति जातिमदादिप्रत्यक्षे जातित्वादेः प्रत्यासत्तित्वं स्यात्, तच्चायुक्तमिति वह्निमत्त्वादेर्जातिमत्वादेश्व सामान्यत्वे ध्रुवे च वह्निमदादेरेव जातिमदादेरेव च सामान्यत्वकल्पने लाघवम्, सखण्डाखण्ड सम्भिनैकस्वभावस्य वस्तुनः प्रामाणिकत्वात्, तथा च धूमादेर्धूमसामान्यत्वेन ज्ञाने यावद्धुममदादिप्रत्यक्षेऽपि परम्परया जातित्वप्रकारकज्ञानस्य कारणत्वतो जातित्वादेरपि सामान्यप्रत्यासत्तित्वं भवेत्, तच्च यथा गौरवेणायुक्तं तथैव वह्निमदादिप्रत्यक्षेऽपि परम्परासम्बन्धेन वह्नित्वादेः प्रत्यासत्तित्वमयुक्तमिति वह्निमदादिप्रत्यक्षानुरोधेन वह्निमत्त्वादेर्जातिमदादिप्रत्यक्षानुरोधेन जातिमत्त्वादेश्च सामान्यप्रत्यासत्तित्वोपपत्तये जातित्वं कल्पनीयम्, तत्राऽतिरिक्तवह्निमत्त्व- -जातिमत्त्वादिकं धर्म परिकल्प्य तत्र जातित्वकल्पनापेक्षयाऽपि लाघवाद् वह्निमदादेर्जातिमदादेरेव सामान्यत्वं कल्पनीयम्, तत एव च वह्निमदादिलक्षणसामान्यप्रत्यासत्तिबलात् सकलवह्निमदादिप्रत्यक्षस्योदयसम्भवादिति समाधत्ते तति । तच्च जातित्वादेः प्रत्यासत्तित्वं च । ननु वह्निमदादेः सखण्ड स्वरूपस्य जातित्वेऽखण्ड स्वरूपत्वमपि स्यात्, तत् कथं सङ्गतम् ? सखण्डत्वाखण्डत्वयोर्विरुद्धयोरेकस्मिन् कल्पनाऽसम्भवादित्य आह - सखण्डेति - वस्तुतः सखण्डाऽखण्डोभयस्वभावस्यैकस्य प्रमाणेन विषयीकृतत्वादपेक्षाभेदेन सखण्डत्वाऽखण्डत्वयोरेकस्मिन्नुपपत्तेस्तयोः सर्वधा विरोधस्याऽसिद्धेरित्याशयः । तत्किमीदृशसामान्यलक्षणप्रत्यासत्तिबलसमुद्भूतं प्रत्यक्षम्, एवं सति प्रत्यक्षेणैव सर्वोपसंहारेणाविनाभावग्रह इति न प्रत्यक्षानुमानव्यतिरिक्तस्य प्रमाणस्यावश्यकतेति नाऽनिन्द्रियजाऽलिङ्गजस्य प्रत्यभिज्ञानस्य प्रामाण्यं तद्दृष्टान्तत इत्यत आहतथा चेति - वह्निमदादेर्जातित्वे सिद्धे चेत्यर्थः, यथा च वह्निमदादिः