SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ अनेकान्तव्यवस्थाप्रणरकम्] [ ९९ तत्राप्यभावत्वादेरखण्डोपाधेः सामान्यत्वस्वीकारे च तेनैव जात्युच्छेदाद् दत्तस्तस्यै जलाञ्जलिः । किश्च, परम्परासम्बन्धेन वह्निवादिप्रकारकज्ञानं विनाऽपि साक्षात्सम्बन्धेन वह्निमत्त्वादिप्रकारकज्ञानादपि यावद्वह्निमदादिप्रत्यक्षानुभवस्य सा जनीनत्वाद् वह्निमवादेरपि सामान्यत्वं ध्रुवम् , साक्षात्सम्बन्धेन वह्निमत्त्वप्रकारके सिद्धया सामान्यपदार्थोच्छेद एव स्यादित्याह-तत्राऽपीति-अभाववदादिप्रत्यक्षस्थलेऽपीत्यर्थः। तेनैव अखण्डोपाधिनव । तस्यै जात्यै । यदि च वह्नित्वेन सकलवह्निप्रत्यक्षानुरोधेन वह्नित्वादिकं सामान्यमुपेयते तर्हि वह्निमत्त्वेन सकलवह्निमत्प्रत्यक्षानुरोधेन वह्निमत्त्वादेरपि सामान्यत्वं स्वीकरणीयं स्यादित्याह-किञ्चेति । स्वाश्रयवत्त्वरूपपरम्परासम्बन्धेन वह्नित्वप्रकारकज्ञानाद् यदि सकलवह्निमत्प्रत्यक्षमुपपद्यत न स्त्रीक्रियेताऽपि वह्निमत्त्वं सामान्यम् , न चैवम्, परम्परासम्बन्धेन वह्नित्वप्रकारकज्ञानस्य सकलवह्निमत्प्रत्यक्षं प्रति कारणत्वकल्पनापेक्षया स्वरूपसम्बन्धेन वह्निमत्त्वप्रकारकज्ञानस्यैव लाघवेन तत् प्रति कारणत्वकल्पनस्यौचित्या. दित्याशयेनाह-परम्परासम्बन्धेनेति-' परम्परासम्बन्धेन वह्नित्वादिप्रकारकज्ञानं विनाऽपि' इत्यनेन व्यतिरेकव्यभिचारादपि तस्य कारणत्वं न सम्भवतीति दर्शितम् । व्यतिरेकव्यभिचारोद्धाराय साक्षात्सम्बन्धेनेति-तद्धर्मविशिष्टस्य यत्र भानं परम्परासम्बन्धेन तद्धर्मस्यापि तत्र भानमिति नियमश्चात्रोपोबलकः, साक्षात्सम्बन्धेन वह्नित्वप्रकारकज्ञानस्य सामान्यलक्षणप्रत्यासत्तिविधया कारणत्वस्यान्यत्र क्लप्तत्वादत्रापि परम्परासम्बन्धेन वह्नित्वप्रकारकज्ञानस्यैव तत्त्वमुचितमिति लाधवमकिश्चित्करमिति हृदयम्। यदि तद्धर्मविशिष्टस्य प्रकारत्वे तद्धर्मस्यापि प्रकारत्वमिति नियम आश्रीयते तर्हि जातित्वेन सकलजातिप्रत्यक्षे जातित्वप्रकारकज्ञानस्य सामान्यलक्षणप्रत्यासत्तिविधया कारणत्वस्य क्लृप्ततया जाति
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy