________________
१६६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् यद्यपि शब्दाऽौँ सामान्येन स्तः, तथाऽपि तदाकारानुविधायिनी तदध्यवसायेन तत्राऽविसंवादात् संवित् प्रमाणत्वेन गीयते, प्रमाणे स्वाकारार्पकश्चार्थ एव, साक्षात् परम्परया वा नियतान्वय-व्यतिरेकशालित्वात् , न तु शब्दोऽतथात्वादिति तस्य न प्रमेयत्वम् , न चाध्यक्षसंविदि कदापि शब्दसंसृष्टोऽर्थः प्रतिभासते, तथाऽननुभवात् , यदि च वस्तुसन्निधावपि तन्नामानुस्मृतिं विनार्थस्यानुपलब्धिरिष्यते, तदार्थसन्निधेरभिधानस्य स्मृतावेवोपक्षीणशक्तिकत्वात् कदापीन्द्रियबुद्धिजनकत्वं न स्यात् , यदि च स्वाभिधानविशेषणाप्रामाण्यमपि सम्भवेत् , न चैवमित्याह- प्रमाण इति । तथा चार्थस्य प्रमाणे स्वाकारार्पकत्वादाकारानुविधायिन्येव संविदिति, कथमर्थस्यैव प्रमाणे स्वाकारार्पकत्वं विज्ञायत इत्यपेक्षायामाह- साक्षादितिएतच्च प्रत्यक्षप्रमाणमाश्रित्य, प्रत्यक्षे साक्षादेवार्थस्य नियतान्वयव्यतिरेकशालित्वात् । परम्परयेति- अनुमानप्रमाणमाश्रित्य, तत्र व्याप्तिशानादिद्वाराऽर्थस्य नियतान्वय-व्यतिरेकशालित्वात् । न तु शब्दः शब्दो न प्रमाणे स्वाकारार्पकः । अतथात्वाद् प्रमाणेन सह साक्षात् परम्परया वा नियतान्वयव्यतिरेकशालित्वाभावात्। इति एतस्माद्धतोः । तस्य शब्दस्य । न प्रमेयत्वं न प्रमाणविषयत्वम् । ननु प्रत्ययमात्रे शब्दसंस्पृष्टोऽर्थः प्रतिभालत इति शब्दस्यापि प्रमाणे नियतान्वयव्यतिरेकित्वेन स्वाकारसमर्पकत्वमस्त्येव प्रमाण इति तस्यापि प्रमेयत्वमित्यत आह-न चेति- अस्य 'प्रतिभासते' इत्यनेन सम्बन्धः। तथाऽननुभवात् शब्दसंस्पृष्टार्थविषयकत्वेन प्रत्यक्षस्यानुभवाविषयत्वात्। वस्तुसन्निधानेऽपि यावन्न तन्नामानुस्मृतिस्तावन्न तत्प्रत्यक्षमित्युपगमे तु वस्तुसन्निधानाच्छब्दानुस्मरणं ततः शब्दसंस्पृष्टार्थस्योपलब्धिरिति स्यात् , एवं च वस्तुसन्निधानं शब्दस्मरण एवीपक्षीणमिति वस्तुन इन्द्रिजन्यज्ञानं प्रति कारणत्वमपि न भवेदित्याह- यदि चेति । तन्नामानुस्मृति विना अर्थाभिधानस्मरणमन्तरेण । अभिधानस्य स्मृतावेव