________________
बनेकान्तव्यवस्थाप्रकरणम् ]
[ १६७ पेक्षमेव चक्षुरादिप्रतिपत्तिः स्वार्थमवगमयतीति परस्य निबन्धः, तदाऽस्तं गतेयमिन्द्रियप्रभवाऽर्थाधिगतिः, तन्नामस्मृत्यादेरसम्भवाद, तथाहि- यत्रार्थे प्राक् शब्दप्रतिपत्तिरभूत् पुनस्तदर्थवीक्षणे तत्सङ्के. तितशब्दस्मृतिर्भवेदिति वक्तुं युक्तम् , अन्यथातिप्रसङ्गात् , न चानभिलापार्थाऽप्रतिपत्तौ पूर्वप्रतिपन्नमभिलापमपि स्मरेत् , अर्थदर्शनस्ववाचकशब्दस्मरण एव । इन्द्रियबुद्धीति- इन्द्रियजन्यबुद्धोत्यर्थः । चक्षुरादिजन्यज्ञानं वस्त्वभिधानात्मकविशेषणापेक्षमेव स्वविषयमवभासयतीति यदीष्यते तदा विशेषणानस्य विशिष्टबुद्धि प्रति कारणत्वेन शब्दरूपविशेषणज्ञाने स्मृत्यात्मके सत्येव शब्दविशिष्टार्थस्य ग्रहणमिति शब्दस्मरणाद्यसम्भवे इन्द्रियजार्थज्ञानस्यानुदय एव प्रसज्यत इत्याह- यदि चेति । परस्य शब्दनयवादिनः । तन्नामस्मृत्याद्य. सम्भवमुपपादयति- तथाहोति । शब्दप्रतिपत्तिरभूत् वावकत्वेन शब्दस्यानुभवो जातः स्मृति प्रत्यनुभवस्य कारणत्वात् प्रागनुभवस्यावश्यकत्वम् , यत्र सङ्केतितया शब्दस्यानुभवः, तदर्थस्य सङ्केतलक्षणसम्बन्धेन शब्दस्य सम्बन्धितया एकसम्बन्धिज्ञानमपरसम्बन्धिनं स्मारयति, यथा- हस्तिपकस्य ज्ञानं हस्तिनं स्मारयतीति तद्ग्रहणे सति तत्सङ्केतितशब्दस्मरणं युज्यत इत्याह- पुनस्तदर्थवीक्षण इति । अन्यथा प्राक् शब्दप्रतिपत्त्याद्यभावेऽपि तत्स्मरणाद्युपगमे । अतिप्रसङ्गात् यस्य कस्यचिद् ग्रहणेऽप्यननुभूतस्यापि तत्सम्बन्धितया स्मृत्यापत्तेः। एवं च शब्दस्मरणार्थमुद्बोधकतयार्थग्रहणस्यावश्यकत्वे चार्थग्रहणे सत्येक शब्दस्मरणमित्यायातम् , अर्थग्रहणं च शब्दसंसृष्टतयैवार्थस्य ग्रहणरूपमिष्यते भवतेत्यर्थग्रहणात् पूर्व शब्दस्यास्मरणे न शब्दसंस्पृष्टार्थग्रहणम्, शब्दासंस्पृष्टार्थग्रहणं चानभ्युपगमादेव नास्तीत्यभिलाप. विनिर्मुक्तार्थप्रतिपत्त्यभावाच्छन्दस्य स्मरणमेव न भवेदित्याह- न चेति- अस्य ‘स्मरेद्' इत्यनेनान्वयः। शब्दास्मरणे हेतुमुपदर्शयतिअर्थदर्शनरूपेति- अर्थदर्शनरूपं यच्छन्दविषयकसंस्कारस्योद्बोधक