________________
१६८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
रूपसंस्कारोद्बोधकाभावात्, अस्मरंश्च शब्दविशेषं न वाच्यवाचकभावसम्बन्धेनार्थे योजयेत् अयोजयंश्च न तेन विशिष्टमर्थमवगच्छेदित्यायातमान्ध्यमशेषस्य जगतः तस्मात् स्वाभिधानस्मृतिनिरपेक्षस्यार्थस्य स्वत एव चक्षुरादिप्रत्ययं प्रत्युपयोगित्वमेष्टव्यमित्यर्थ एव तवमिति ।
"
!
शब्दनयास्तु सङ्गिरन्ते - कारणस्यापि विषयस्यावगाहनेनोपलम्भमाना प्रतिपत्तिर्न तावत् प्रमाणं यावदध्यवसायो न भवेत्, स चाध्यवसाय विकल्पात्मा तदभिधानस्मृतिं विना नोत्पद्यत इति सर्वव्यवहारेषु शब्दसम्बन्धः प्रधाननिबन्धनम्, प्रत्यक्षस्यापि तज्जन्माध्यवसायविकल्पविकलस्य बहिरन्तर्वा प्रतिक्षणपरिणामप्रति
तस्याभावादित्यर्थः । यदा चार्थग्रहणलक्षणोदबोधकाभावान्न शब्दस्मरणं तदा शब्दलक्षणविशेषणज्ञानाभावाद् वाच्यवाचकभावसम्बन्धेन शब्द विशिष्टस्यार्थस्य ग्रहणमपि न सम्भवति, शब्दरूपविशेषणविनिर्मुक्तस्यार्थस्य ग्रहणं च नेष्यते भवतेत्यर्थग्रहणस्य सर्वथाऽभावादान्ध्यमशेषस्य जगतः प्रसज्यत इत्याह- अस्मरंश्चेति । अयोजयंच अर्थे वाच्यवाचकभावसम्बन्धेन शब्दविशेषमयोजयंश्च । तेन शब्देन, विशिष्टमर्थ नावगच्छेत् न जानीयात् । इति पत्र प्रकारेण कस्याप्यर्थस्य ज्ञानाभावात् । अर्थनयवादी स्वाभिमतमुप पंहरति- तस्मादिति ।
शब्दनयवादिमतमुपदर्शयति शब्दनयस्त्विति । कारणस्यापि प्रतिपत्तिकारणस्यापि । यदा चाध्यवसाये सत्येव प्रत्ययस्य प्रामाण्यं तदाऽध्यवसायस्य विकल्परूपस्य शब्दसंसृष्टार्थविषयकत्वाच्छन्दस्मरणमन्तरेण नोपजायत इति सर्वव्यवहारस्य प्रधानकारणं शब्दसम्बन्ध इत्याह- स चाध्यवसाय इति । प्रत्यक्षपरिणामावगाहिप्रत्यक्षं भवत् तत्र प्रमाणं स्यादिति प्रत्यक्षेऽपि विकल्पव्यापारके शब्द -