________________
अनेकान्तव्यवस्थाप्रकरणम् ] पत्ताविव प्रमाणतानुपपत्तेः, अविसंवादलक्षणत्वात् , प्रमाणानाम् , प्रतिक्षणपरिणामांशेऽप्यध्यक्षप्रामाण्याभ्युपगमे च प्रमाणान्तरदर्शने यत्नान्तरकरणं ग्रान्थिकानामपार्थकं स्यात्, प्रमाणव्यवस्थानिबन्धनं तन्नामस्मृतिव्यवसाययोजनमर्थप्राधान्यमपहस्तयतीति शब्द एव सर्वत्र प्रमाणादिव्यवहारे प्रधान कारणमिति । द्वितीयविकल्पे च
सम्बन्धस्यापेक्षाऽऽस्त्येवेत्याह-प्रत्यक्षस्याऽपीति।तजन्मेति-प्रत्यक्षजन्या. ध्यवसायात्मकविकल्परहितस्य बहिरन्तर्वा प्रतिक्षणपरिणामग्रहणेऽपि यथा न तत्र प्रामाण्यं तथाऽन्यत्रापि विषये प्रमाणतानुपपत्तरित्यर्थः । संवादे सति प्रामाण्यं न तु विसंवादे, यावच्च नाध्यवसायस्तावन्न प्रामाण्यमित्यतोऽध्यवसायस्य विकल्परूपस्यावश्यकतेत्याशयेनाहअविसवादेति-विगतः संवादो विसंवादः संवादाभावः, न विसंवादोऽविप्तवाद इति संवाद एव पर्यवस्यति, तल्लक्षणत्वात् तेन लक्षणेन ज्ञायते इदं प्रमागमिति । वस्तुतः प्रतिक्षणपरिणामग्राहिप्रत्यक्षस्य तथाभूताध्यवसायविकलस्यापि प्रतिक्षणपरिणामांशे प्रामाण्याभ्युपगमे तु तत्र विप्रतिपत्तौ प्रमाणान्तरोपदर्शनं यद् ग्रन्थकारैः क्रियते तदपार्थकमेवापद्येत, प्रमाणान्तरोपदर्शनमन्तरेणाऽपि प्रत्यक्षप्रमाणत एव तत्प्रसिद्धरित्याह- प्रतिक्षणपरिणामांशेऽपीति । शब्दनयाः स्वाभिमतमुपसंहरन्ति- तत इति । तथाच व्यवस्थितमिदम्- अर्थनय-शब्दनययोविषयविभागस्य दुरान्तरत्वात् सप्तभङ्गया अर्थनयाश्रित्वे तदेकतरभङ्गस्याप्यर्थनयाश्रिततया न शब्दनयविशेषकत्वमिति न तत ऋजुसूत्राच्छब्दनस्य विशेषिततरत्वम्। सप्तभङ्गी शब्दनयाश्रितेति द्वितीयकल्पेऽपि ऋजुसूत्राभिमतो योऽर्थपर्यायो न स शब्दनयाश्रितसप्तभङ्गयकतरभङ्गविषय इति ऋजुसूत्राविषयविषयकस्य शब्दनयस्य न ततो विशेषिततरत्वं सप्तमङ्गयेकतरभङ्गलक्षणविशेषणेन सिद्धय तीत्याह- द्वितीयविकल्पे चेति । तस्मात् ऋजुसूत्रात् ।