________________
तत्त्वबोधिनीविवृतिविभूषितम् तुर्याद्या देशतो ये न च त इह नये देशि-देशाद्यभावा
दित्थं सप्तापि भङ्गा जिनवचनसमुद्रातिचञ्चत्तरङ्गाः । श्रीमद्भिर्वाचकाग्र्यैर्बुधहितगतये दर्शिताः श्रीगुरूणां, ___ पूर्ण प्राप्य प्रसादं कुनयमतमलं निर्विशेषं च भङ्कत्वा ॥ १४१॥ वस्त्वित्थं सप्तभङ्गीवचनगतमनेकान्तरूपं प्रमाण
नीतिस्यूतात्मचैतन्यविषय इह जात्यन्तरात्मानुभूतेः। पर्याया व्यञ्जनाख्याः सदृशमिति मता नार्थपर्यायरूपा
स्तद्रूपेणात्र सत्त्वं भवति प्रमितिगं खण्डिता चात्र शङ्का ॥ १४२ ॥ वस्त्वस्ति व्यञ्जनेनाखिलमपि न भवेदर्थपर्यायतः सन् , .
नैकान्तोऽयं व्यवस्थां श्रयति ननु ततः सम्मतिश्चात्र प्राचाम् । प्रत्युत्पन्नेऽप्यनेकान्तमननमुदितं पुद्गलस्येव चात्म__ द्रव्यस्याभीष्टमेतत् प्रशमरतिवचोमिश्च संवाद उक्ते ॥ १४३ ॥ किञ्चानेकान्तरूपत्वमिह पुरुषगं स्यात् प्रकारान्तरेण, ___ यः कोपोत्पादकात्मा भवति पुनरसावन्यरूपः पुराऽभूत् । इत्थं भेदोऽप्यभिन्ने भवति च पुरुषे सम्मतावुक्तमेतद्,
युक्तिश्चात्रोपदिष्टा यदुपगममिता भिन्नाऽभिन्नजीवे ॥ १४४ ॥ द्रव्यादेकान्तभिन्नं गुणमभिलषता गौतमीयादिकानां,
राद्धान्तो युक्तिजालैरपहतिपदवीं सम्मतावेव नीतः। पर्यायाद् भिन्नरूपो भवति यदि गुणस्तर्हि तद्राहकोऽपि, - स्यात् पर्यायार्थिकाख्यो नय इव च गुणार्थाभिधानो नयोऽन्यः ॥१४५॥ सूत्रे पर्यायसंज्ञाऽपि जिननियमिता वर्ण-गन्धादिके या, .... ___सा पर्यायवरूपान् कथयति च गुणाँस्तौ च तुल्यार्थशब्दौ । एवं वस्तुस्थितौ तु क्रमभवनमिते पर्यवे पर्यवाख्या, ___ तस्मिन्निष्टा गुणाख्या सहभवनमिते लोकयात्राप्रसिदै ॥ १४६॥ सिद्धान्ते याऽपि चैक-द्विगुणप्रभृतिका कृष्ण-रक्तादिवाणी, ...... ___सा वै सङ्ख्यानशास्त्राकलितगणनगा नो गुणार्थाऽवधेया । तस्वार्थे वाचकोक्तं यदपि च गुण-पर्यायवद् व्यमित्या- .
कार सूत्रं प्रमाणं तदपि ननु भवेदुक्तरीत्याऽविरुद्धम् ॥ १४७॥
mmmmmmmmmmm