________________
. अस्य पद्यस्यायमर्थः यस्य सुवर्णद्रव्यस्य घटपर्यायात्मना यस्मिन् क्षणे यो नाशस्तत्र घटार्थी जनः शोकं याति-प्राप्नोति, तस्मिन्नेव क्षणे तस्यैव सुवर्णद्रव्यस्य मुकुटपर्यायात्मना य उत्पादस्तत्र मौल्यर्थी जनः प्रमोदमानन्दं प्राप्नोति, तस्यैव च सुवर्णद्रव्यस्य तस्मिन्नेव क्षणे सुवर्णद्रव्यरूपेणानुगतेन या स्थितिरवस्थानं तत्र सुवार्थी जनः न शोचति नापि मोदते किन्तु माध्यस्थ्यमवलम्बते नाशोत्पादस्थितीनां धर्माणां धर्मिणा समं भेदाभेदात्मकाविष्टम्भावलक्षणतादात्म्यमेव सम्बन्ध इति तदेवैकद्रव्यं नाशरूपत्वाच्छोकस्य कारणमुत्पादरूपत्वादानन्दस्य कारणमवस्थितिरूपत्वात्माध्यस्थ्यं च कारणमपेक्षा भेदश्च विरोधापहारको वर्त्तते, एतद्दृष्टान्तावष्टम्भेन सर्वत्र वस्तुन्येकस्मिन्क्षणेऽपेक्षाभेदेन नाशोत्पादस्थित्यात्मकत्वलक्षणं सत्त्वं सुदृढनिरूढं भवति, एतदभिप्रायिकैव 'उप्पेइ वा विगमेइ वा धुवेइ वा' इति भगवन्मुखाम्भोजनिर्गता त्रिपदी, एतदर्थपरिभावनप्रवणा तत्त्वार्थसूत्रपञ्चमाध्यायगता 'उत्पादव्ययध्रौव्ययुक्तं सत् ॥ ५ ॥ २९ ॥ तद्भावाव्ययं नित्यम् ॥ ५॥ ३० ॥ अर्पितानर्पितसिद्धः ॥ ५॥ ३१ ॥ इति त्रिसूत्री, सविवरणभाष्योपेतायास्तस्याः सम्यगुपपादनप्रवणं त्रिसूत्रीविवरणं यत्किमपि पाण्डित्यं कर्तुर्गमयति, अन्वर्थशास्त्रवार्तासमुच्चयाभिधानग्रन्थस्य श्रीमद् 'हरिभद्रसूरिविरचितस्य तत्कृतव्याख्यानन्यायविशारदयशोविजयोपाध्यायकृतव्याख्यानद्वयसमनुगमनकरं शास्त्रवार्तासमुच्चयविवरणम् , अपश्चिमतीर्थङ्करमहावीरस्तुतिरूपमहावादिसिद्धसेनदिवाकरप्रणीतद्वात्रिंशिकोपलब्धद्वाविंशतिकाविवरणं द्रष्टुविद्वजनसमष्टयमन्दानन्दसमुल्लासकम् , खमतपरमतावगतिकृतपरिश्रमाणां न्यायविशारदयशोविजयोपाध्यायानां जिनवचनाम्बुध्यवगाहनतत्त्वरत्नानां प्राचीनसूरिरचितानल्पागमपरिचयोपजातधीवैभवभाजां नव्यन्यायाद्यध्ययनपरिश्रमोपजनितनवीनतर्कवितर्ककल्पनासूत्रणसूत्रधाराणां जैनमतभक्तिसमुल्लसिता न्यायालोकमहावीरस्तवप्रकरणतद्विवृति-खाद्यखण्डन-नयोपदेशतवृत्ति-नयामृततरङ्गिणी-नयररहस्यसप्तभङ्गीप्रकरणा-ऽनेकान्ततत्त्वव्यवस्थाप्रकरणा-ऽष्टसहस्रीविवेचनपराष्टसहस्त्रीप्रभृतयो बहवो ग्रन्थास्समुल्लसन्ति, येषां मध्ये न्यायालोक-महावीरप्रकरणतट्टीकाखाद्यखण्डनयोविवरणे सूरिचक्रचक्रवर्तिगुरुप्रवरविजयनेमिसूरिविरचिते विजयदर्शनसूरिविरचिते च, अष्टसहस्रीव्याख्यानञ्च विजयोदयसुरिणा यथासमयं क्रियते, अवशिष्टानां प्रायोऽखिलानां व्याख्यानानि विजयलावण्यसूरिणा निर्मितानि ।
तेष्विदमनेकान्तव्यवस्थाप्रकरणं, तद्व्याख्यानञ्चेदम् , तत्र मूलाभिप्रेतयावद्विष